श्रीः अध्यायः 090
युधिष्ठिरेणाश्वमेधसमापनानन्तरं राज्ञां यथोचितं सम्मानपूर्वकं स्वस्वदेशान्प्रति प्रस्थापनम् ॥ 1 ॥
वैशम्पायन उवाच KK-14-02-90-001
श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः । KK-14-02-90-001a
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः ॥ KK-14-02-90-001c
ततः सञ्ज्ञप्य तुरगं विधिवद्याजकर्षभाः । KK-14-02-90-002a
उपसंवेशयाञ्चक्रुस्ततस्तां द्रुपदात्मजाम् । KK-14-02-90-002c
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥ KK-14-02-90-002e
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः । KK-14-02-90-003a
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ ॥ KK-14-02-90-003c
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः । KK-14-02-90-004a
उपाजिघ्रद्यथाशास्त्रं सर्वपापापहं तदा ॥ KK-14-02-90-004c
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप । KK-14-02-90-005a
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥ KK-14-02-90-005c
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः । KK-14-02-90-006a
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ KK-14-02-90-006c
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि । KK-14-02-90-007a
कोटीः सहस्रं निष्काणां व्यासाय तु वसुन्धराम् ॥ KK-14-02-90-007c
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः । KK-14-02-90-008a
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम् ॥ KK-14-02-90-008c
वसुधा भवतस्त्वेषां सन्न्यस्ता राजसत्तम । KK-14-02-90-009a
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना ॥ KK-14-02-90-009c
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः । KK-14-02-90-010a
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ KK-14-02-90-010c
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता । KK-14-02-90-011a
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया ॥ KK-14-02-90-011c
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम् । KK-14-02-90-012a
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ KK-14-02-90-012c
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः | KK-14-02-90-013a
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा ॥ KK-14-02-90-013c
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा । KK-14-02-90-014a
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥ KK-14-02-90-014c
ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत । KK-14-02-90-015a
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥ KK-14-02-90-015c
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम् । KK-14-02-90-016a
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥ KK-14-02-90-016c
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् । KK-14-02-90-017a
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते ॥ KK-14-02-90-017c
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् । KK-14-02-90-018a
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि ॥ KK-14-02-90-018c
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह । KK-14-02-90-019a
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम् ॥ KK-14-02-90-019c
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः । KK-14-02-90-020a
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता ॥ KK-14-02-90-020c
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः । KK-14-02-90-021a
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥ KK-14-02-90-021c
धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः । KK-14-02-90-022a
धूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ KK-14-02-90-022c
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा । KK-14-02-90-023a
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम् ॥ KK-14-02-90-023c
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सविभूषणम् । KK-14-02-90-024a
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः । KK-14-02-90-024c
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥ KK-14-02-90-024e
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु । KK-14-02-90-025a
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः । KK-14-02-90-025c
'कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥' KK-14-02-90-025e
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् । KK-14-02-90-026a
तर्पिता वसुना तेन धर्मराजेन धीमता ॥ KK-14-02-90-026c
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः । KK-14-02-90-027a
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥ KK-14-02-90-027c
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा । KK-14-02-90-028a
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा ॥ KK-14-02-90-028c
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह । KK-14-02-90-029a
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव ॥ KK-14-02-90-029c
पाण्डवाश्च महीपालैः समेतैरभिसंवृताः । KK-14-02-90-030a
अशोभन्त महाराज ग्रहस्तारागणैरिव ॥ KK-14-02-90-030c
राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च । KK-14-02-90-031a
गजानश्वानलङ्कारान्स्त्रियो वासांसि काञ्चनम् ॥ KK-14-02-90-031c
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले । KK-14-02-90-032a
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा ॥ KK-14-02-90-032c
आनीय च तथा वीरं राजानं बभ्रुवाहनम् । KK-14-02-90-033a
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयत्तदा ॥ KK-14-02-90-033c
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ । KK-14-02-90-034a
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्यवेशयत् ॥ KK-14-02-90-034c
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान् । KK-14-02-90-035a
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥ KK-14-02-90-035c
गोविन्दं च महात्मानं बलदेवं महाबलम् । KK-14-02-90-036a
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः ॥ KK-14-02-90-036c
पूजयित्वा महाराज यथाविधि महाद्युतिः । KK-14-02-90-037a
भ्रातृभिः सहितो राजा प्रास्थापयदरिन्दमः ॥ KK-14-02-90-037c
एवं बभूव यज्ञः स धर्मराजस्य धीमतः । KK-14-02-90-038a
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥ KK-14-02-90-038c
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः । KK-14-02-90-039a
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ ॥ KK-14-02-90-039c
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा । KK-14-02-90-040a
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः ॥ KK-14-02-90-040c
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम् । KK-14-02-90-041a
मृदङ्गशङ्खनादैश्च मनोरममभूत्तदा || KK-14-02-90-041c
दीयतां भुज्यतां चापि तत्र शब्दो महानभूत् । KK-14-02-90-042a
दीयतां दीयतां चेति दिवारात्रमवारितम् ॥ KK-14-02-90-042c
तं महोत्सवसङ्काशं हृष्टपुष्टजनाकुलम् । KK-14-02-90-043a
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ KK-14-02-90-043c
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा । KK-14-02-90-044a
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ KK-14-02-90-044c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि नवतितमोऽध्यायः ॥ 90 ॥
14-90-2 सञ्ज्ञप्य हिंसित्वा तुरगम् । तस्य समीपे तिसृभिः कलाभिः कलनाभिः मन्त्रद्रव्यश्रद्धाख्याभिरुपेतां द्रौपदीम् उपसंवेशयाञ्चक्रुः ॥ 14-90-5 अङ्गानि हृदयजिह्वावक्षादीनि ॥ 14-90-6 संस्थाप्य समाप्य ॥ 14-90-7 तुशब्दश्चार्थे । तेन सर्वेभ्यो वसुन्धरां ददावित्यर्थः ॥ 14-90-25 अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात् क्षत्रियादयो गृहीतवन्त इत्यर्थः ॥ 7-90-38 मैरेयं वृक्षजं मद्यम् ॥ 14-90-40 पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्कारयुक्तो रागः ||