श्रीः अध्यायः 089

बभ्रुवाहनेनोलूपीचित्राङ्गदाभ्यां सह यागदिदृक्ष्या हास्तिनपुरम् प्रत्यागमनम् ॥ 1 ॥ ततः स्वयं समागतव्यासाज्ञया युधिष्ठिरेण ऋत्विग्भिः सहाश्वमेधोपक्रमः ॥ 2 ॥

वैशम्पायन उवाच KK-14-02-89-001
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः । KK-14-02-89-001a
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ KK-14-02-89-001c
तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान् । KK-14-02-89-002a
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः । KK-14-02-89-002c
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ KK-14-02-89-002e
स प्रविश्य महाबाहुः पाण्डवानां निवेशनम् । KK-14-02-89-003a
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना ॥ KK-14-02-89-003c
तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च । KK-14-02-89-004a
पृथां कृष्णां च सहिते विनयेनोपजग्मतुः । KK-14-02-89-004c
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥ KK-14-02-89-004e
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च । KK-14-02-89-005a
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः ॥ KK-14-02-89-005c
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने । KK-14-02-89-006a
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया ॥ KK-14-02-89-006c
स च राजा महातेजाः पूजितो बभ्रुवाहनः । KK-14-02-89-007a
धूतराष्ट्रं महीपालमुपतस्थे यथाविधि ॥ KK-14-02-89-007c
युधिष्टिरं च राजानं भीमादींश्चापि पाण्डवान् । KK-14-02-89-008a
उपागम्य महातेजा विनयेनाभ्यवादयत् ॥ KK-14-02-89-008c
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि । KK-14-02-89-009a
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ KK-14-02-89-009c
तथैव च महीपालः कृष्णं चक्रगदाधरम् । KK-14-02-89-010a
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ KK-14-02-89-010c
तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम् । KK-14-02-89-011a
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ KK-14-02-89-011c
धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा । KK-14-02-89-012a
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन् ॥ KK-14-02-89-012c
ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः । KK-14-02-89-013a
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ KK-14-02-89-013c
अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते । KK-14-02-89-014a
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः ॥ KK-14-02-89-014c
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् । KK-14-02-89-015a
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ KK-14-02-89-015c
एवमत्र महाराज दक्षिणाभिर्गुणीकुरु । KK-14-02-89-016a
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥ KK-14-02-89-016c
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् । KK-14-02-89-017a
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥ KK-14-02-89-017c
पवित्रं परमं चैतत्पावनानां च पावनम् । KK-14-02-89-018a
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ KK-14-02-89-018c
इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना । KK-14-02-89-019a
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः ॥ KK-14-02-89-019c
ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम् । KK-14-02-89-020a
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् ॥ KK-14-02-89-020c
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः । KK-14-02-89-021a
परिक्रामन्ति शास्त्रज्ञा यथावद्द्विजसत्तमाः ॥ KK-14-02-89-021c
न तेषां स्खलितं किञ्चिदासीदपहुतं तथा । KK-14-02-89-022a
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ KK-14-02-89-022c
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः । KK-14-02-89-023a
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ KK-14-02-89-023c
अभिषूय ततो राजन्सोमं सोमपसत्तमाः । KK-14-02-89-024a
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः ॥ KK-14-02-89-024c
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह । KK-14-02-89-025a
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः ॥ KK-14-02-89-025c
भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा । KK-14-02-89-026a
भीमसेनो महातेजाः सततं राजशासनात् ॥ KK-14-02-89-026c
संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः । KK-14-02-89-027a
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शनात् ॥ KK-14-02-89-027c
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः । KK-14-02-89-028a
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः ॥ KK-14-02-89-028c
ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ । KK-14-02-89-029a
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ KK-14-02-89-029c
देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे । KK-14-02-89-030a
श्लेष्मातकमयं चैकं याजकाः समकल्पयन् ॥ KK-14-02-89-030c
'सर्वानेतान्यथाशास्त्रं याजकाः समकारयन् ।' KK-14-02-89-031a
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ । KK-14-02-89-031c
स भीमः कारयामास धर्मराजस्य शासनात् ॥ KK-14-02-89-031e
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः । KK-14-02-89-032a
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि ॥ KK-14-02-89-032c
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृता विभो । KK-14-02-89-033a
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः ॥ KK-14-02-89-033c
चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः । KK-14-02-89-034a
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः ॥ KK-14-02-89-034c
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः । KK-14-02-89-035a
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥ KK-14-02-89-035c
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये । KK-14-02-89-036a
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥ KK-14-02-89-036c
यूपेषु नियता चासीत्पशूनां त्रिशती तथा । KK-14-02-89-037a
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः ॥ KK-14-02-89-037c
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः । KK-14-02-89-038a
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ॥ KK-14-02-89-038c
स किम्पुरुषसङ्कीर्णः किन्नरैश्चोपशोभितः । KK-14-02-89-039a
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ KK-14-02-89-039c
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः । KK-14-02-89-040a
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥ KK-14-02-89-040c
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः । KK-14-02-89-041a
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ॥ KK-14-02-89-041c
गन्धर्वा गीतकुशला नृत्येषु च विशारदाः । KK-14-02-89-042a
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै ॥ KK-14-02-89-042c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

14-89-15 अहीनः अह्नां सोमयागानां बहूनां समूहोऽहीनः । न हीनः द्रव्यादिना इति वा ॥ 14-89-23 अभिषव सोमवल्ल्याः कण्डनम् ॥ 14-89-24 सोमं सोमवल्लीरसम् । सवनानि प्रातःसवनादीनि ॥ 14-89-27 संस्तरे इष्टकानां चयनाख्ये स्थण्डिलरचने ॥ 14-89-29 वर्णिनः पलाशकाष्ठमयाः ॥