श्रीः अध्यायः 088
युधिष्ठिरेण पाण्डवेषु चतुर्भ्योऽर्जुनस्यैव विशेषतोऽध्वसञ्चारादिपरिक्लेशसूचकशारीरालक्षणप्रश्ने कृष्णेन तम् प्रति तत्कथनम् ॥ 1 ॥ मेध्याश्वस्य पृथ्वीसञ्चारणाय गतेनार्जुनेन सहाश्वेन पुनर्नगरम् प्रत्यागमनम् ॥ 3 ॥
युधिष्ठिर उवाच KK-14-02-88-001
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् । KK-14-02-88-001a
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो ॥ KK-14-02-88-001c
बहूनि किल युद्धानि विजयस्य नराधिपैः । KK-14-02-88-002a
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम् ॥ KK-14-02-88-002c
किन्निमित्तं स नित्यं हि पार्थः सुखविवर्जितः । KK-14-02-88-003a
अतीव विजयो धीमानिति मे दूयते मनः ॥ KK-14-02-88-003c
सञ्चिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन । KK-14-02-88-004a
अतीव दुःखभागी स सततं पाण्डुनन्दनः ॥ KK-14-02-88-004c
किन्नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते । KK-14-02-88-005a
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ KK-14-02-88-005c
अतीवासुखभोगी स सततं कुन्तिनन्दनः । KK-14-02-88-006a
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन । KK-14-02-88-006c
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥ KK-14-02-88-006e
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् । KK-14-02-88-007a
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ KK-14-02-88-007c
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये । KK-14-02-88-008a
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः ॥ KK-14-02-88-008c
स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते । KK-14-02-88-009a
न चान्यदनुपश्यामि येनासौ दुःखभाजनम् ॥ KK-14-02-88-009c
इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता । KK-14-02-88-010a
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ KK-14-02-88-010c
कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत | KK-14-02-88-011a
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा । KK-14-02-88-011c
प्रख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ॥ KK-14-02-88-011e
तत्र भीमादयस्ते तु कुरवो याजकाश्च ये । KK-14-02-88-012a
रेमुः श्रुत्वा विचित्रां तां धनञ्जयकथां शुभाम् ॥ KK-14-02-88-012c
तेषां कथयतामेव पुरुषोऽर्जुनसङ्कथाः । KK-14-02-88-013a
उपायाद्वचनाद्दूतो विजयस्य महात्मनः ॥ KK-14-02-88-013c
सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् । KK-14-02-88-014a
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत् ॥ KK-14-02-88-014c
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः । KK-14-02-88-015a
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा ॥ KK-14-02-88-015c
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत । KK-14-02-88-016a
आगच्छति नरव्याघ्रे कौरवाणां धुरन्धरे ॥ KK-14-02-88-016c
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः । KK-14-02-88-017a
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ KK-14-02-88-017c
तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः । KK-14-02-88-018a
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ KK-14-02-88-018c
कोन्यो हि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान् | KK-14-02-88-019a
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात् ॥ KK-14-02-88-019c
ये व्यतीता महात्मानो राजानः सगरादयः । KK-14-02-88-020a
तेषामपीदृशं कर्म न कदाचन शुश्रुम ॥ KK-14-02-88-020c
नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः । KK-14-02-88-021a
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि ॥ KK-14-02-88-021c
इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः । KK-14-02-88-022a
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ KK-14-02-88-022c
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः । KK-14-02-88-023a
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा ॥ KK-14-02-88-023c
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः । KK-14-02-88-024a
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ॥ KK-14-02-88-024c
तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि । KK-14-02-88-025a
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः ॥ KK-14-02-88-025c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥