श्रीः अध्यायः 087

कृष्णेन बलरामादिभिः सह युधिष्ठिराश्वमेधाय हास्तिनपुरम्प्रत्यागमनम् ॥ 1 ॥ तथा युधिष्ठिरम् प्रति नानादेशेभ्य आगमिष्यतां राज्ञामप्रमादेन यथोचितपूजाया मणलूरादागमिष्यतो बभ्रुवाहनस्य सम्माननस्य च कर्तव्यताप्रतिपादकार्जुनसन्देशनिवेदनम् ॥ 2 ॥

वैशम्पायन उवाच KK-14-02-87-001
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । KK-14-02-87-001a
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत ॥ KK-14-02-87-001c
उपयाता नरव्याघ्रा य एते पृथिवीश्वराः । KK-14-02-87-002a
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः ॥ KK-14-02-87-002c
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना । KK-14-02-87-003a
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः ॥ KK-14-02-87-003c
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् । KK-14-02-87-004a
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ॥ KK-14-02-87-004c
युयुधानेन सहितः प्रद्युम्नेन गदेन च । KK-14-02-87-005a
निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥ KK-14-02-87-005c
तेषामपि परां पूजां चक्रे भीमो महारथः । KK-14-02-87-006a
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः ॥ KK-14-02-87-006c
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः । KK-14-02-87-007a
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ॥ KK-14-02-87-007c
स तं प्रपच्छ कौन्तेयः पुनःपुनररिन्दमम् । KK-14-02-87-008a
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः ॥ KK-14-02-87-008c
आगमद्द्वारकावासी समाप्तः पुरुषो नृप । KK-14-02-87-009a
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ॥ KK-14-02-87-009c
समीपे च महाबाहुमाचष्ट च मम प्रभो । KK-14-02-87-010a
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥ KK-14-02-87-010c
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः । KK-14-02-87-011a
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव ॥ KK-14-02-87-011c
यदिदं सन्दिदेशास्मिन्पाण्डवानां बलाग्रणीः । KK-14-02-87-012a
तदाख्यातमिहेच्छामि भवता यदुनन्दन ॥ KK-14-02-87-012c
इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा । KK-14-02-87-013a
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥ KK-14-02-87-013c
इदमाह महाराज पार्थवाक्यं नरेश्वरः । KK-14-02-87-014a
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥ KK-14-02-87-014c
आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ । KK-14-02-87-015a
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः ॥ KK-14-02-87-015c
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद । KK-14-02-87-016a
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत् ॥ KK-14-02-87-016c
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् । KK-14-02-87-017a
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः ॥ KK-14-02-87-017c
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् । KK-14-02-87-018a
धनञ्जयस्य नृपते तन्मे निगदतः शृणु ॥ KK-14-02-87-018c
उपयास्यति यज्ञं नो मणलूरपतिर्नृपः । KK-14-02-87-019a
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥ KK-14-02-87-019c
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् । KK-14-02-87-020a
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥ KK-14-02-87-020c
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः । KK-14-02-87-021a
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥ KK-14-02-87-021c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥

14-87-7 भोजराजन्यानां वर्धनः ॥ 14-87-8 जानुनोरधस्थः पश्चाद्भागीयो मांसलः प्रदेशः पिण्डिका । ते उभे अस्याधिके स्वदेशादधोभागपर्यन्तं बहुलमालम्बमाने ॥