श्रीः अध्यायः 086

चारमुखादर्जुनस्य तुरगसञ्चारणात्पुनर्नगरम् प्रत्यागमनश्रवणहृष्टस्य युधिष्ठिरस्य निदेशाद्भीमेन यज्ञशालादिनिर्मापणम् ॥ 1 ॥ तथा नानादेशेभ्यो ब्राह्मणाद्यानयनपूर्वकं तेषामन्नदानादिव्यवस्थाकरणम् ॥ 2 ॥

वैशम्पायन उवाच KK-14-02-86-001
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् । KK-14-02-86-001a
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः । KK-14-02-86-001c
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत् ॥ KK-14-02-86-001e
विजयस्य च तत्कर्म गान्धारविषये तदा । KK-14-02-86-002a
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा ॥ KK-14-02-86-002c
एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम् । KK-14-02-86-003a
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ KK-14-02-86-003c
समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः । KK-14-02-86-004a
भीमं च नकुलं चैव सहदेवं च कौरव ॥ KK-14-02-86-004c
प्रोवाचेदं वचः काले तदा धर्मभृतांवरः । KK-14-02-86-005a
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम् ॥ KK-14-02-86-005c
आयाति भीमसेनासौ सहाश्वेन तवानुजः । KK-14-02-86-006a
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ॥ KK-14-02-86-006c
उपस्थितश्च कालोऽयमभितो वर्तते हयः । KK-14-02-86-007a
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥ KK-14-02-86-007c
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः । KK-14-02-86-008a
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ KK-14-02-86-008c
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् । KK-14-02-86-009a
हृष्टः श्रुत्वा गुडाकेशमायान्तं पुरुषर्षभम् ॥ KK-14-02-86-009c
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह । KK-14-02-86-010a
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥ KK-14-02-86-010c
तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम् । KK-14-02-86-011a
मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥ KK-14-02-86-011c
प्रासादशतसम्बाधं मणिप्रवरकुट्टिमम् । KK-14-02-86-012a
'सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम् ।' KK-14-02-86-012c
कारयामास विदिवद्धेमरत्नविभूषितम् ॥ KK-14-02-86-012e
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । KK-14-02-86-013a
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ KK-14-02-86-013c
अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम् । KK-14-02-86-014a
कारयामास धर्मात्मा तत्रतत्र यथाविधि ॥ KK-14-02-86-014c
ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम् । KK-14-02-86-015a
कारयामास कौन्तेयो विधिवत्तान्यनेकशः ॥ KK-14-02-86-015c
तथा सम्प्रेषयामास दूतान्नृपतिशासनात् । KK-14-02-86-016a
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम् ॥ KK-14-02-86-016c
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम । KK-14-02-86-017a
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ KK-14-02-86-017c
तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम् । KK-14-02-86-018a
नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः ॥ KK-14-02-86-018c
'प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत् ॥' KK-14-02-86-019ac
तेषामभ्यागतानां च स राजा कुरुवर्धनः । KK-14-02-86-020a
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥ KK-14-02-86-020c
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः । KK-14-02-86-021a
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट् ॥ KK-14-02-86-021c
'वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः ।' KK-14-02-86-022a
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः । KK-14-02-86-022c
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥ KK-14-02-86-022e
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते । KK-14-02-86-023a
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ KK-14-02-86-023c
सर्वांश्च ताननुययौ यावदावसथान्प्रति । KK-14-02-86-024a
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥ KK-14-02-86-024c
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा । KK-14-02-86-025a
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन् ॥ KK-14-02-86-025c
तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः । KK-14-02-86-026a
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः ॥ KK-14-02-86-026c
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः । KK-14-02-86-027a
हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥ KK-14-02-86-027c
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् । KK-14-02-86-028a
देवेन्द्रस्येव विहितं भीमसेनेन भारत ॥ KK-14-02-86-028c
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते । KK-14-02-86-029a
शय्यासनविहारांश्च सुबहून्रत्नसञ्चयान् ॥ KK-14-02-86-029c
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् । KK-14-02-86-030a
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः ॥ KK-14-02-86-030c
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् । KK-14-02-86-031a
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥ KK-14-02-86-031c
स्थलजा जलजा ये च पशवः केचन प्रभो । KK-14-02-86-032a
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ॥ KK-14-02-86-032c
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च । KK-14-02-86-033a
औदकानि च सत्वानि श्वापदानि वयांसि च ॥ KK-14-02-86-033c
जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च । KK-14-02-86-034a
पर्वतानूपजातानि भूतानि ददृशुश्च ते ॥ KK-14-02-86-034c
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः । KK-14-02-86-035a
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः ॥ KK-14-02-86-035c
'अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् |' KK-14-02-86-036a
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥ KK-14-02-86-036c
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । KK-14-02-86-037a
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत । KK-14-02-86-037c
विननादासकृच्चापि दिवसेदिवसे गते ॥ KK-14-02-86-037e
एवं स ववृते यज्ञो धर्मराजस्य धीमतः । KK-14-02-86-038a
अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान् । KK-14-02-86-038c
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ KK-14-02-86-038e
जम्बूद्वीपो हि सकलो नानजनपदायुतः । KK-14-02-86-039a
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे ॥ KK-14-02-86-039c
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः । KK-14-02-86-040a
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥ KK-14-02-86-040c
स्रग्विणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । KK-14-02-86-041a
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः ॥ KK-14-02-86-041c
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः । KK-14-02-86-042a
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह ॥ KK-14-02-86-042c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

14-86-3 इष्टं नक्षत्रं पुष्यम् ॥ 14-86-8 प्रस्थाप्यन्तु प्रस्थापयन्तु । स्वार्थे णिच् । प्रतिष्ठन्त्वित्यर्थः ॥