अध्यायः 085
अर्जुनेन शकुनितनयपराजयपूर्वकं तत्सेनावमर्दनम् ॥ 1 ॥ ततः शकुनिभार्यया तेन स्वसुतवधसम्भावनया रणाङ्गणमेत्यार्जुनस्य प्रसादनम् ॥ 2 ॥ अर्जुनेन गान्धारीगौरवात्तत्सम्माननपूर्वकं तत्तनयसमाश्वासनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
शकुनस्तनयो वीरो गान्धाराणां महारथः । 001a
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः । 001c
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना ॥ 001e
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम् । 002a
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥ 002c
स तानुवाच धर्मात्मा बीभत्सुरपराजितः । 003a
युधिष्टिरस्य वचनं न च ते जगृहुर्हितम् ॥ 003c
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः । 004a
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥ 004c
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः । 005a
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥ 005c
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् । 006a
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥ 006c
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः । 007a
आदिश्याऽऽदिश्य तेजस्वी परानेतानवारयत् ॥ 007c
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः । 008a
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥ 008c
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् । 009a
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ॥ 009c
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः । 010a
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः । 010c
स शक्रसमकर्माणं समवाकिरदाशुगैः ॥ 010e
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा । 011a
अपाहरदमेयात्मा जयद्रथशिरो यथा ॥ 011c
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते । 012a
इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥ 012c
गान्धारराजपुत्रस्तु पलायनकृतक्षणः । 013a
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥ 013c
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् । 014a
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ॥ 014c
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् । 015a
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥ 015c
सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम् । 016a
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः ॥ 016c
नाभ्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः । 017a
रिपवः पात्यमाना वै ये सहेरन्महाशरान् ॥ 017c
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा । 018a
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥ 018c
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् । 019a
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ 019c
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः । 020a
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ 020c
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता । 021a
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥ 021c
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च । 022a
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ 022c
मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी । 023a
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 023c
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम् । 024a
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् ॥ ॥ 024c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥