अध्यायः 084
दक्षिणां दिशमुपागतेनार्जुनेन चेदीशितुः शिशुपालात्मजस्य पूजापरिग्रहणम् ॥ 1 ॥ तथा काशिकोसलादिदेशाधिपतिपराजयपूर्वकं गान्धारदेशगमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः । 001a
दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥ 001c
ततः स पुनरावर्त्य हयः कामचरो बली । 002a
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥ 002c
शरभेणार्चितस्तत्र शिशुपालसुतेन सः । 003a
युद्धपूर्वं तदा तेन पूजया च महाबलः ॥ 003c
ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः । 004a
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात् ॥ 004c
पूजां तत्र यथान्यायं प्रतिगृह्य धनञ्जयः । 005a
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा ॥ 005c
तत्र चित्राङ्गदो नाम बलवानरिमर्दनः । 006a
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥ 006c
तं चापि वशमानीय किरीटी पुरुषर्षभः । 007a
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥ 007c
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा । 008a
तत्र चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ॥ 008c
ततस्तमपि कौन्तेयः समरेष्वपराजितः ॥ 009a
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम् ॥ 009c
स तं जित्वा महाराज नैषादिं पाकशासनिः । 010a
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥ 010c
तत्रापि द्रविडैरान्ध्रै रौद्रैर्माहिषकैरपि । 011a
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ॥ 011c
तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा । 012a
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ । 012c
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान् ॥ 012e
ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम् । 013a
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥ 013c
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः । 014a
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ॥ 014c
ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा । 015a
सहितो वासुदेवेन मातुलेन किरीटिनः ॥ 015c
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् । 016a
परया भारतश्रेष्ठं पूजया समवस्थितौ । 016c
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ॥ 016e
ततः स पश्चिमं देशं समुद्रस्य तदा हयः । 017a
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ॥ 017c
तस्मादपि स कौरव्य गन्धारविषयं हयः । 018a
विचचार यथाकामं कौन्तेयानुगतस्तदा ॥ 018c
ततो गान्धारराजेन युद्धमासीत्किरीटिनः । 019a
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ ॥ 019c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥