अध्यायः 083

अर्जुनेनाश्वानुसरणवशान्मगधदेशगमनम् ॥ 1 ॥ तत्र जरासन्धपौत्रस्य मेघसन्धेः पराजयपूर्वकं तत्रतत्र म्लेच्छादिपराजयः ॥ 2 ॥

वैशम्पायन उवाच । 001
स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम् । 001a
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम् ॥ 001c
अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत् । 002a
यदृच्छया समापेदे पुरं राजगृहं तदा ॥ 002c
तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो । 003a
क्षत्रधर्मे स्थितो वीरः समरायाऽऽजुहाव ह ॥ 003c
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली । 004a
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ॥ 004c
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् । 005a
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ 005c
किमयं चार्यते वाजी स्त्रीमध्य इव भारत । 006a
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ 006c
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम । 007a
करिष्यामि तवाऽऽतिथ्यं प्रहर प्रहरामि च ॥ 007c
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः । 008a
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ 008c
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् । 009a
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ 009c
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः । 010a
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥ 010c
ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः । 011a
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ ॥ 011c
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः । 012a
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ 012c
ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च । 013a
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ 013c
संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना । 014a
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥ 014c
ततो गाण्डीवधन्वा तु मागधेन भृशाहतः । 015a
बभौ वसन्तसमये पलाशः पुष्पितो यथा ॥ 015c
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् । 016a
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ 016c
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः । 017a
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत् ॥ 017c
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह । 018a
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥ 018c
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः । 019a
गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥ 019c
तस्यापतत एवाशु गदां हेमपरिष्कृताम् । 020a
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥ 020c
सा गदा शकलीभूता विशीर्णमणिबन्धना । 021a
व्याली विमुच्यमानेव पपात धरणीतले ॥ 021c
विरथं विधनुष्कं च गदया परिवर्जितम् । 022a
'नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥ 022c
तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम् ॥' 023a
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ 023c
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् । 024a
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥ 024c
युधिष्ठिरस्य सन्देशो न हन्तव्या नृपा इति । 025a
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥ 025c
इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः । 026a
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥ 026c
पराजितोऽस्मि भद्रं ते नाहं योद्धुमिहोत्सहे । 027a
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु ॥ 027c
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् । 028a
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 028c
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् । 029a
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः ॥ 029c
ततो यथेष्टमगमत्पुनरेव स कौरवः । 030a
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ 030c
तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः । 031a
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ॥ ॥ 031c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

14-83-7 अदत्तानुनयः अशिक्षितः ॥ 14-83-20 गृध्रवाजितैः गृध्रपक्षयुतैः ॥