अध्यायः 082

उलूप्याऽर्जुनं प्रति चित्राङ्गदादीनां समराङ्गणागमने कारणाभिधानम् ॥ 1 ॥ तथा बभ्रुवाहनेन तस्य पराजये विस्तरेण हेतुकथनम् ॥ 2 ॥

अर्जुन उवाच । 001
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि । 001a
मणलूरपतेर्मातुस्तथैव च रणाजिरे ॥ 001c
कच्चित्कुशलकामाऽसि राज्ञोऽस्य भुजगात्मजे । 002a
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि ॥ 002c
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने । 003a
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ 003c
कच्चिन्नु राजपुत्री ते सपत्नी चैत्रवाहनी । 004a
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ॥ 004c
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ । 005a
न मे त्वमपराद्धोऽसि न हि मे बभ्रुवाहनः । 005c
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्स्थिता ॥ 005e
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् । 006a
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ 006c
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो । 007a
यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ॥ 007c
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः । 008a
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ 008c
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः । 009a
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया ॥ 009c
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम् । 010a
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् । 010c
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ॥ 010e
वसुभिर्वसुधापाल गङ्गया च महामते । 011a
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया ॥ 011c
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप । 012a
आप्लुत्य देवा वसवः समेत्य च महानदीम् । 012c
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥ 012e
एष शान्तनवो भीष्मो निहतः सव्यसाचिना । 013a
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ॥ 013c
तदनेनानुषङ्गेण वयमद्य धनञ्जयम् । 014a
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत् ॥ 014c
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया । 015a
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ 015c
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत । 016a
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन् ॥ 016c
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा । 017a
स एनं रणमध्यस्थः शरैः पातयिता भुवि ॥ 017c
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति । 018a
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥ 018c
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः । 019a
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ 019c
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः । 020a
न हि दोषो मम मतः कथं वा मन्यसे विभो ॥ 020c
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम् । 021a
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ 021c
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः । 022a
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा ॥ 022c
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति । 023a
तत्राऽऽगच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ 023c
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः । 024a
उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ 024c
उपयास्यामि धर्मज्ञ भवतः शासनादहम् । 025a
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ 025c
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् । 026a
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा ॥ 026c
उषित्वेह निशामेकां सुखं स्वभवने प्रभो । 027a
पुनरश्वानुगमनं कर्ताऽसि जयतांवर ॥ 027c
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः । 028a
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ 028c
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् । 029a
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ 029c
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ । 030a
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥ 030c
वैशम्पायन उवाच । 031
स तत्र विधिवत्तेन पूजितः पाकशासनिः । 031a
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ ॥ 031c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥