अध्यायः 081

बभ्रुवाहने प्रायोपविष्टे उलूप्या स्मरणमात्रसन्निहितसञ्जीवनमणिनाऽर्जुनस्य समुद्बोधनम् ॥ 1 ॥ ततः सुप्तोत्थितेनेव तेन बभ्रुवाहनं प्रति चित्राङ्गदादीनां रणाङ्गणागमने कारणप्रश्ने तेनोलूपीं प्रति प्रश्नचोदना ॥ 2 ॥

वैशम्पायन उवाच । 001
प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा । 001a
पितृशोकसमाविष्टे सह मात्रा परन्तप ॥ 001c
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् । 002a
स चोपातिष्ठत तदा पन्नगानां परायणम् ॥ 002c
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता । 003a
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥ 003c
उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः । 004a
अजेयः पुरुषैरेष तथा देवैः सवासवैः ॥ 004c
मया तु मोहनी नाम मायैषा सम्प्रदर्शिता । 005a
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥ 005c
जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव । 006a
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा ॥ 006c
तस्मादसि मया पुत्र युद्धाय परिचोदितः । 007a
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो ॥ 007c
ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः । 008a
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ॥ 008c
अयं तु मे मणिर्दिव्यः समानीतो विशाम्पते । 009a
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥ 009c
एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो । 010a
सञ्जीवितं तदा पार्थं स त्वं द्रष्टाऽसि पाण्डवम् ॥ 010c
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा । 011a
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥ 011c
तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः । 012a
चिरसुप्त इवोत्तस्थौ मृष्टलोहितलोचनः ॥ 012c
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् । 013a
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥ 013c
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो । 014a
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥ 014c
अनाहता दुन्दुभयो विनेदुर्मेघनिःस्वनाः । 015a
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः ॥ 015c
उत्थाय च महाबाहुः पर्याश्वस्तो धनञ्जयः ॥ 016a
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥ 016c
ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम् । 017a
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ॥ 017c
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् । 018a
रणाजिरममित्रघ्न यदि जानासि शंस मे ॥ 018c
जननी च किमर्थं ते रणभूमिमुपागता । 019a
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥ 019c
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् । 020a
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥ 020c
तमुवाच तथा पृष्टो मणलूरपतिस्तदा । 021a
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥ ॥ 021c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥