अध्यायः 080
चित्राङ्गदया रणाङ्गणनिपतितपतिपुत्रदर्शनजशोकातिरेकेण मोहाधिगमः ॥ 1 ॥ तथा सञ्ज्ञोपलम्भे उलूपीं प्रत्युपालम्भगर्भवचनम् ॥ 2 ॥ ततश्चिराल्लुब्धसञ्ज्ञेन बभ्रुवाहनेनाऽऽत्मोपालम्भनपूर्वकं प्रायोपवेशनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
ततो बहुतरं भीरर्विलप्य कमलेक्षणा । 001a
मुमोह दुःखसन्तप्ता पपात च महीतले ॥ 001c
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा । 002a
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥ 002c
उलूपि पश्य भर्तारं शयानं निहतं रणे । 003a
त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम् ॥ 003c
ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता । 004a
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥ 004c
किन्नु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनञ्जयः । 005a
क्षमस्व याच्यमाना वै जीवयस्व धनञ्जयम् ॥ 005c
ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे । 006a
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि ॥ 006c
नाहं शोचामि तनयं हतं पन्नगनन्दिनि । 007a
पतिमेव तु शोचामि यस्याऽऽतिथ्यमिदं कृतम् ॥ 007c
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् । 008a
भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥ 008c
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय । 009a
अयमश्वो महाबाहो मयो ते परिमोक्षितः ॥ 009c
ननु त्वया नाम विभो धर्मराजस्य यज्ञियः । 010a
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥ 010c
त्वयि प्राणा ममाऽऽयत्ताः कुरूणां कुरुनन्दन । 011a
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ॥ 011c
उलूपि साधु पश्येमं पतिं निपतितं भुवि । 012a
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि ॥ 012c
कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः । 013a
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥ 013c
नापराधोऽस्ति सुभगे नराणां बहुभार्यता । 014a
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी ॥ 014c
सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु । 015a
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ॥ 015c
पुत्रेण घातयित्वैनं पतिं यदि न मेऽद्य वै । 016a
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥ 016c
साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता । 017a
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥ 017c
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी । 018a
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥ 018c
ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा । 019a
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती ॥ 019c
ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः । 020a
मातरं तामथाऽऽलोक्य रणभूमावथाब्रवीत् ॥ 020c
इतो दुःखतरं किन्नु यन्मे माता सुखैधिता । 021a
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥ 021c
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् । 022a
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ॥ 022c
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते । 023a
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ 023c
दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते । 024a
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात् ॥ 024c
हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि । 025a
अपविद्धं हतस्येह मया पुत्रेण पश्यत ॥ 025c
भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि । 026a
शयानं वीरशयने मया पुत्रेण पातितम् ॥ 026c
ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः । 027a
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः ॥ 027c
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे । 028a
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ 028c
दुश्चरा द्वादश समा हत्वा पितरमद्य वै । 029a
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ 029c
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे । 030a
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम ॥ 030c
पश्य नागोत्तमसुते भर्तारं निहतं मया । 031a
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥ 031c
सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम् । 032a
न शक्नोम्यात्मनाऽऽत्मानमहं धारयितुं शुभे ॥ 032c
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि । 033a
भव प्रीतिमती देवि सत्येनाऽऽत्मानमालभे ॥ 033c
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः । 034a
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥ 034c
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च । 035a
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ 035c
यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः । 036a
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥ 036c
नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् । 037a
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥ 037c
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते । 038a
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम ॥ 038c
एत एको महातेजाः पाण्डुपुत्रो धनञ्जयः । 039a
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥ 039c
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः । 040a
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥ ॥ 040c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥
14-80-27 कामस्यति कां अस्येति च्छेदः ॥