अध्यायः 078

अर्जुनसमागमनश्रवणमात्रेण जयद्रथसुते मृते दुश्शलया तत्सुतमानीयार्जुनं प्रत्यभियानम् ॥ 1 ॥ ततोऽर्जुनेन दुश्शलाप्रार्थनया तस्यां बहुमानेन च युद्धादुपरमः ॥ 2 ॥

वैशम्पायन उवाच । 001
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः । 001a
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ 001c
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः । 002a
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत ॥ 002c
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान् । 003a
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ॥ 003c
युध्यध्वं परया शक्त्या यतध्वं विजये मम । 004a
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥ 004c
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम् । 005a
तिष्ठध्वं युद्धमनसो दर्पं शमयिताऽस्मि वः ॥ 005c
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा । 006a
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥ 006c
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः । 007a
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना । 007c
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः ॥ 007e
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति । 008a
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम् ॥ 008c
न हन्येरंश्च राजानो राज्ञश्चाऽऽज्ञा कृता भवेत् । 009a
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः ॥ 009c
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् । 010a
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ॥ 010c
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः । 011a
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ॥ 011c
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः । 012a
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः ॥ 012c
अत्वरावानसम्भ्रान्तः सङ्क्रुद्धैर्विजिगीषुभिः । 013a
शतं शतसहस्राणि शराणां नतपर्वणाम् ॥ 013c
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि । 014a
शरानापततः क्रूरानाशीविषविषोपमान् । 014c
चिच्छेद निशितैर्बाणैरन्तरा स धनञ्जयः ॥ 014e
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान् । 015a
एकैकमेषां समरे बिभेद निशितैः शरैः ॥ 015c
ततः प्रास्रांश्च शक्तीश्च पुनरेव धनञ्जये । 016a
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ 016c
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः । 017a
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः ॥ 017c
तथैवाऽऽपततां तेषां योधानां जयगृद्धिनाम् । 018a
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः ॥ 018c
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम् । 019a
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ 019c
ते वध्यमानास्तु तदा पार्थेनामिततेजसा । 020a
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ 020c
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः । 021a
कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥ 021c
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा । 022a
दुःशला बालमादाय नप्तारं प्रययौ तदा ॥ 022c
सुरथस्य सुतं वीरं रथेनाथागमत्तदा । 023a
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ॥ 023c
सा धनञ्जयमासाद्य रुरोदाऽऽर्तस्वरं तदा । 024a
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ 024c
समुत्सृज्य धनुः पार्थो विधिवद्भगिनीं तदा । 025a
प्राह किं करवाणीति सा च तं प्रत्युवाच ह ॥ 025c
एष ते भरतश्रेष्ठ स्वस्रीयस्याऽऽत्मजः शिशुः । 026a
अभिवादयते पार्थ तं पश्य पुरुषर्षभ ॥ 026c
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा । 027a
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥ 027c
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता । 028a
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय ॥ 028c
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ । 029a
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् । 029c
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ॥ 029e
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ । 030a
विषादार्तः पपातोर्व्यां ममार च ममाऽऽत्मजः ॥ 030c
तं दृष्ट्वा पतितं तत्र ततस्तस्याऽऽत्मजं प्रभो । 031a
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ॥ 031c
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा । 032a
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ 032c
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च । 033a
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह । 033c
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ 033e
अभिमन्योर्यथा जातः परिक्षित्परवीरहा । 034a
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज ॥ 034c
तमादाय नरव्याघ्र सम्प्राप्ताऽस्मि तवान्तिकम् । 035a
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥ 035c
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः । 036a
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥ 036c
एष प्रसाद्य शिरसा प्रशमार्थमरिन्दम । 037a
याचते त्वां महाबाहो शमं गच्छ धनञ्जय ॥ 037c
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः । 038a
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥ 038c
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् । 039a
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ॥ 039c
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः । 040a
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् । 040c
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत् ॥ 040e
'धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् ।' 041a
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥ 041c
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः । 042a
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ 042c
दुःशला चापि तान्योधान्निवार्य महतो रणात् । 043a
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना ॥ 043c
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनञ्जयः । 044a
अन्वधावत धावन्तं हयं कामविचारिणम् ॥ 044c
ततो मृगमिवाऽऽकाशे यथा देवः पिनाकधृक् । 045a
ससार तं तथा वीरो विधिवद्यज्ञियं हयम् ॥ 045c
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम् । 046a
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ 046c
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ । 047a
मणलूरपतेर्देशमुपायात्सहपाण्डवः ॥ ॥ 047c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

14-78-47 मणिपूरपतेरिति झ.पाठः ॥