अध्यायः 076
अर्जुनेन भगदत्तात्मजपराजयः ॥ 1 ॥
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ । 001a
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥ 001c
ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः । 002a
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥ 002c
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे । 003a
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥ 003c
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा । 004a
हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय ॥ 004c
इत्येवमुक्त्वा सङ्क्रुद्धो यज्ञदत्तो नराधिपः । 005a
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥ 005c
सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता । 006a
उत्पतिष्यन्निवाऽऽकाशमभिदुद्राव पाण्डवम् ॥ 006c
अग्रहस्तसुमुक्तेन शीकरेण स नागराट् । 007a
समौक्षत गुडाकेशं शैलं नील इवाम्बुदः ॥ 007c
स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः । 008a
मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम् ॥ 008c
स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः । 009a
आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ 009c
तमायान्तमथाऽऽलक्ष्य यज्ञदत्तस्य वारणम् । 010a
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥ 010c
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः । 011a
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥ 011c
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः । 012a
निवारयामास तदा वेलेव मकरालयम् ॥ 012c
स नागप्रवरः श्रीमानर्जुनेन निवारितः । 013a
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा ॥ 013c
निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः । 014a
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ 014c
अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः । 015a
वारयामास तान्बाणांस्तदद्भुतमिवाभवत् ॥ 015c
ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः । 016a
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम् ॥ 016c
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः । 017a
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥ 017c
स तेन वारणो राजन्मर्मस्वभिहतो भृशम् । 018a
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ 018c
स पतञ्शुशुभे नागो धनञ्जयशराहतः । 019a
विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ 019c
तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः । 020a
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥ 020c
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः । 021a
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ॥ 021c
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम् । 022a
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ॥ 022c
वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः । 023a
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ 023c
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप । 024a
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥ 024c
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् । 025a
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः ॥ 025c
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा । 026a
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ ॥ 026c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥
14-76-13 शललितः शलाकाप्रोतः ॥