अध्यायः 075
अर्जुनेन प्राग्ज्योतिषपुरमेत्याश्वरक्षणाय भगदत्तसुतेन यज्ञदत्तेन सहाऽऽयोधनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः । 001a
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ 001c
सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम् । 002a
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः ॥ 002c
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः । 003a
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ 003c
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा । 004a
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥ 004c
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः । 005a
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ 005c
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः । 006a
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥ 006c
पाण्डुरेणाऽऽतपत्रेण ध्रियमाणेन मूर्धनि । 007a
दोधूयता चामरेण श्वेतेन च महारथः ॥ 007c
ततः पार्थं समासाद्य पाण्डवानां महारथम् । 008a
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे ॥ 008c
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् । 009a
प्रेषयामास सङ्क्रुद्धः श्वेताश्वं प्रति पार्थिवः ॥ 009c
विक्षरन्तं महामेघं परवारणवारणम् । 010a
शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम् ॥ 010c
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः । 011a
तदाऽङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ 011c
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः । 012a
भूमिष्ठो वारणगतं योधयामास भारत ॥ 012c
यज्ञदत्तस्ततः क्रुद्धो मुमोचाऽऽशु धनञ्जये । 013a
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ॥ 013c
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः । 014a
द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा ॥ 014c
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः । 015a
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ 015c
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् । 016a
प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ॥ 016c
स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे । 017a
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥ 017c
ततः स पुनरारुह्य वारणप्रवरं रणे । 018a
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ 018c
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् । 019a
प्रेषयामास सङ्क्रुद्धो ज्वलितज्वलनोपमान् ॥ 019c
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ । 020a
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ ॥ 020c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥
14-75-2 वज्रदत्तो महीपतिरिति झ.पाठः ॥ 14-75-20 गैरिकाक्तमिवाम्भोद्रिर्बहुप्रस्रवणं तदा इति झ.पाठः ॥