अध्यायः 074

अर्जुनेन त्रैगर्तानां पराजयः ॥ 1 ॥

वैशम्पायन उवाच । 001
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः । 001a
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥ 001c
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् । 002a
विषयान्तं ततो वीरा दंशिताः पर्यवारयन् ॥ 002c
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः । 003a
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ॥ 003c
ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम् । 004a
वारयामास तान्वीरान्सान्त्वपूर्वमरिन्दमः ॥ 004c
तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा । 005a
तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ॥ 005c
तानब्रवीत्ततो जिष्णुः प्रहसन्निव भारत । 006a
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च ॥ 006c
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः । 007a
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ 007c
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः । 008a
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥ 008c
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे । 009a
विनद्य शरजालेनि प्रजहास धनञ्जयः ॥ 009c
ततस्ते रथघोषेण रथनेमिस्वनेन च । 010a
पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ॥ 010c
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् । 011a
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥ 011c
तथैवान्ये महेष्वासा ये च तस्यानुयायिनः । 012a
मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ॥ 012c
स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् । 013a
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ 013c
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा । 014a
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना ॥ 014c
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे । 015a
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥ 015c
केतुवर्मण्यभिहते धृतवर्मा महारथः । 016a
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत् ॥ 016c
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् । 017a
गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥ 017c
न सन्दधानं ददृशे नाददानं च तं तदा । 018a
किरन्तमेवं स शरान्ददृशे पाकशासनिः ॥ 018c
स तु तं पूजयामास धृतवर्माणमाहवे । 019a
मनसा तु मुहूर्तं वै रणे समभिहर्षयन् ॥ 019c
'न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव । 020a
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः ॥ 020c
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव । 021a
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत् ॥ 021c
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा । 022a
धृतवर्मा शरं दीप्तं मुमोच विजये तदा ॥ 022c
स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम् । 023a
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले ॥ 023c
धनुषः पततस्तस्य सव्यसाचिकराद्विभो । 024a
बभूव सदृशं रूपं शक्रचापस्य भारत ॥ 024c
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः । 025a
चकार सस्वनं हासं धृतवर्मा महाहवे ॥ 025c
ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात् । 026a
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च ॥ 026c
ततो हलहलाशब्दो दिवस्पृगभवत्तदा । 027a
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम् ॥ 027c
ततः सम्प्रेक्ष्य सङ्क्रुद्धं कालान्तकयमोपमम् । 028a
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन् ॥ 028c
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः । 029a
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनञ्जयः ॥ 029c
ततो योधाञ्जघानाऽऽशु तेषां स दश चाष्ट च । 030a
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः ॥ 030c
तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः । 031a
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ 031c
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः । 032a
दिशोऽभिदुद्रुवू राजन्धनञ्जयशरार्दिताः ॥ 032c
'हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः ।' 033a
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ॥ 033c
तवाऽऽस्म किङ्कराः सर्वे सर्वे वै वशगास्तव । 034a
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् । 034c
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥ 034e
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा । 035a
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम् ॥ ॥ 035c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

14-74-01 महारथत्वेन सम्यगाज्ञातैः पाण्डवीयैर्हतानां पुत्रनप्तृभिस्त्रिगर्तैः ॥