अध्यायः 073

अर्जुनेन युधिष्ठिरनियोगाद्ब्राह्मणैः क्षत्रियैश्च सह प्रथममुत्तरदिश्यश्वसञ्चारणेन रक्षणाय तदनुसरणम् ॥ 1 ॥

वैशम्पायन उवाच । 001
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः । 001a
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥ 001c
कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः । 002a
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥ 002c
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना । 003a
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ 003c
स राजा राजधर्मेण दीक्षितो विबभौ तदा । 004a
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ 004c
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः । 005a
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ 005c
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशाम्पते । 006a
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः ॥ 006c
श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः । 007a
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ 007c
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् । 008a
तमश्वं पृथिवीपाल मुदा युक्तः ससार च ॥ 008c
अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो । 009a
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ॥ 009c
तेषामन्योन्यसम्मर्दादूष्मेव समजायत । 010a
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥ 010c
ततः शब्दो महाराज दिशः खं प्रतिपूरयन् । 011a
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ॥ 011c
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् । 012a
समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥ 012c
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः । 013a
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥ 013c
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् । 014a
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते ॥ 014c
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः । 015a
स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम् । 015c
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम् ॥ 015e
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ । 016a
शुश्राव मधुरा वाचः पुनःपुनरुदारधीः ॥ 016c
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि । 017a
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ 017c
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः । 018a
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते । 018c
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ 018e
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा । 019a
चचार स महाराज यथादेशं च सत्तम ॥ 019c
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह । 020a
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ 020c
स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत । 021a
ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥ 021c
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः । 022a
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥ 022c
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा । 023a
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥ 023c
किराता यवना राजन्बहवोऽसिधनुर्धराः । 024a
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे ॥ 024c
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः । 025a
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ 025c
एवं वृत्तानि युद्धानि तत्रतत्र महीपते । 026a
अर्जुनस्य महीपालैर्नानादेशसमागतैः ॥ 026c
यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च । 027a
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ ॥ 027c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

14-73-9 आकुमारं तदा राजन् इति झ.पाठः ॥ 14-73-17 शिष्यः सोमश्रवाः ॥