अध्यायः 072

व्यासेन युधिष्ठिरं प्रति पृथिवीसञ्चाराय मेध्याश्वोत्सर्जनचोदना ॥ 1 ॥ तथाऽश्वरक्षणेऽर्जुनस्य नियोजनम् ॥ 2 ॥

वैशम्पायन उवाच । 001
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः । 001a
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥ 001c
यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः । 002a
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रतुः ॥ 002c
व्यास उवाच । 003
अयं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च । 003a
विधानं यद्यथा कालं तत्कर्तारौ न संशयः ॥ 003c
चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति । 004a
सम्भाराः सम्भ्रियन्तां च यज्ञार्थं पुरुषर्षभ ॥ 004c
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः । 005a
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ 005c
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम् । 006a
सपर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥ 006c
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः । 007a
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ॥ 007c
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पितास्तथा ॥ 008ac
स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा । 009a
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥ 009c
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् । 010a
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥ 010c
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव । 011a
यत्तु योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति ॥ 011c
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् । 012a
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि ॥ 012c
युधिष्ठिर उवाच । 013
अयमश्वो यथा ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् । 013a
चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥ 013c
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् । 014a
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ 014c
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् । 015a
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् । 015c
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति ॥ 015e
शक्तः स हि महीं जेतुं निवातकवचान्तकः । 016a
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा । 016c
दिव्यं धनश्चेषुधी च स एनमनुयास्यति ॥ 016e
स हि धर्मार्थकुशलः सर्वविद्याविशारदः । 017a
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ 017c
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः । 018a
अभिमन्योः पिता वीरः स एनमनुयास्यति ॥ 018c
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः । 019a
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते ॥ 019c
सहदेवस्तु कौरव्य समायास्यति बुद्धिमान् । 020a
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥ 020c
स तु सर्वं यथान्यायमुक्तः कुरुकुलोद्वहः । 021a
चकार फल्गुनं चापि सन्दिदेश हयं प्रति ॥ 021c
युधिष्ठिर उवाच । 022
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् । 022a
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥ 022c
ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः । 023a
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ ॥ 023c
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः । 024a
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ 024c
वैशम्पायन उवाच । 025
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् । 025a
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ 025c
कुटुम्बतन्त्रे च तदा सहदेवं युधाम्पतिम् । 026a
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ ॥ 026c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

14-72-11 स्फ्यः काष्ठखङ्गः स चात्र सौवर्णः । कूर्च आसनार्थं कुशमुष्टिः सोऽप्यत्र सौवर्णः ॥ 14-72-12 सुगुप्तं सुरक्षितं यथा स्यात्तथा ॥