अध्यायः 071
कृष्णादिभिः प्रत्युद्गम्यमानैर्युधिष्ठिरादिभिः स्वर्णभारपुरस्कारेण हास्तिनपुरप्रवेशः ॥ 1 ॥ ततस्तत्रोपागतेन व्यासेन युधिष्ठिरं प्रत्यश्वमेधप्रशंसनपूर्वकं तत्करणविधानम् ॥ 2 ॥ युधिष्ठिरेणाश्वमेधे स्वयं दीक्षास्वीकारं प्रार्थितेन कृष्णेन सहेतुकथनं तं प्रत्येव दीक्षास्वीकारविधानम् ॥ 3 ॥
वैशम्पायन उवाच । 001
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः । 001a
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः । 001c
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया ॥ 001e
ते समेत्य यथाधर्मं पाण्डवा वृष्णिभिः सह । 002a
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ 002c
विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह । 003a
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम् ॥ 003c
ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा । 004a
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ 004c
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् । 005a
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥ 005c
धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम् । 006a
कुन्तीं च राजशार्दूल तदा भरतसत्तम ॥ 006c
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च । 007a
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते ॥ 007c
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् । 008a
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥ 008c
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः । 009a
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥ 009c
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः । 010a
आजगाम महातेजा नगरं नागसाह्वयम् ॥ 010c
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः । 011a
सह वृष्ण्यन्धकव्याघ्रैरुपासाञ्चक्रिरे तदा ॥ 011c
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै । 012a
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ 012c
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् । 013a
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ 013c
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम । 014a
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ 014c
व्यास उवाच । 015
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् । 015a
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥ 015c
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् । 016a
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥ 016c
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः । 017a
अश्वमेधस्य कौरव्य चकाराऽऽहरणे मतिम् ॥ 017c
समनुज्ञाप्य तत्सर्वं कृष्णद्वैपायनं नृपः । 018a
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत् ॥ 018c
देवकी सुप्रजा देवी त्वया पुरुषसत्तम । 019a
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥ 019c
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन । 020a
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ 020c
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः । 021a
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ 021c
त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः । 022a
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ 022c
वासुदेव उवाच । 023
त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिन्दम । 023a
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ 023c
त्वं चाद्य कुरुवीराणां धर्मेण हि विराजसे । 024a
गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः । 024c
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया ॥ 024e
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत । 025a
सत्यं ते प्रतिजानामि सर्वं कर्ताऽस्मि तेऽनघ ॥ 025c
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ । 026a
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे ॥ ॥ 026c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
14-71-7 वैश्यापुत्रं युयुत्सुम् ॥ 14-71-16 पावनः नाशकः ॥