अध्यायः 068
कृष्णेन परिक्षित्सूतिकागृहप्रवेशनम् ॥ 1 ॥ तत्रोत्तरया कृष्णसमीपे बहुधा विलापपूर्वकं पुत्रोज्जीवनप्रार्थना ॥ 2 ॥
वैशम्पायन उवाच । 001
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्च्छितः । 001a
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥ 001c
वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः । 002a
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥ 002c
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव । 003a
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ 003c
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् । 004a
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ 004c
अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः । 005a
वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः । 005c
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा ॥ 005e
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः । 006a
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥ 006c
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव । 007a
हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत् ॥ 007c
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा । 008a
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥ 008c
अयमायाति ते भर्तुर्मातुलो मधुसूदनः । 009a
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ 009c
साऽपि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह । 010a
असंवीताऽभवद्देवी देववत्कृष्णमीयुषी ॥ 010c
सा तथा दूयमानेन हृदयेन तपस्विनी । 011a
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ 011c
पुण्डरीकाक्ष पश्याऽऽवां बालेन हि विनाकृतौ । 012a
अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन ॥ 012c
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये । 013a
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममाऽऽत्मजम् ॥ 013c
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः । 014a
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ 014c
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो । 015a
अहमेव विनष्टा स्यां नायमेवं गतो भवेत् ॥ 015c
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् । 016a
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥ 016c
सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण । 017a
प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ॥ 017c
अस्मिन्हि बहवः साधो ये ममाऽऽसन्मनोरथाः । 018a
ते द्रोणपुत्रेण हताः किन्नु जीवामि केशव ॥ 018c
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन । 019a
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम् ॥ 019c
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ । 020a
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥ 020c
चपलाक्षः किलातीव प्रियस्ते मधुसूदन । 021a
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम् ॥ 021c
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा । 022a
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं ॥ 022c
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव । 023a
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥ 023c
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया । 024a
इदानीं मां गतां तत्र किन्नु वक्ष्यति फाल्गुनिः ॥ ॥ 024c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥
14-68-19 पुत्रोत्सङ्गा जनार्दनेति झ.पाठः ॥