अध्यायः 067

सुभद्रया श्रीकृष्णं प्रति तन्महिमसंस्तवनपूर्वकं परिक्षिदुज्जीवनप्रार्थना ॥ 1 ॥

वैशम्पायन उवाच । 001
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा । 001a
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥ 001c
पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः । 002a
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥ 002c
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता । 003a
सोत्तरायां निपतिता विजये मयि चैव ह ॥ 003c
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव । 004a
यन्न पश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो ॥ 004c
किन्नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः । 005a
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ 005c
श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च । 006a
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥ 006c
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः । 007a
ते श्रुत्वा किन्नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥ 007c
भविता नः परं दुःखं किन्नु मन्ये जनार्दन । 008a
अभिमन्योः सुतं कृष्ण मृतं जातमरिन्दम ॥ 008c
साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता । 009a
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥ 009c
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव । 010a
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥ 010c
अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम । 011a
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ॥ 011c
इत्येद्वचनं श्रुत्वा जानानाऽहं बलं तव । 012a
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः ॥ 012c
यद्येतत्त्वं प्रतिश्रुत्य न करोषि वचः शुभम् । 013a
सकलं वृष्णिशार्दूल मृतां मामवधारय ॥ 013c
अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् । 014a
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥ 014c
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् । 015a
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्म्बुदः ॥ 015c
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः । 016a
स तां वाचमृतां कर्तुमर्हसि त्वमरिन्दम ॥ 016c
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् । 017a
किं पुनर्दयितं जातं स्वस्त्रीयस्याऽऽत्मजं मृतम् ॥ 017c
प्रभावज्ञाऽस्मि ते कृष्ण तस्मात्त्वां याचयाम्यहम् । 018a
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥ 018c
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः । 019a
प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि ॥ ॥ 019c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

14-67-4 घृतेन सिक्तैरिति शेषः ॥