अध्यायः 066
कृष्णेन बलभद्रसुभद्रादिभिः सह यज्ञार्थं हास्तिनपुरं प्रत्यागमनम् ॥ 1 ॥ तत उत्तरायां परिक्षितो जननम् ॥ 2 ॥ अश्वत्थामास्त्रेण जननकाल एव शवभूतस्य तस्योज्जीवनाय कुन्त्यादिभिः श्रीकृष्णं प्रति प्रार्थना ॥ 3 ॥
वैशम्पायन उवाच । 001
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् । 001a
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥ 001c
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः । 002a
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति ॥ 002c
रौक्मिणेयेन सहितो युयुधानेन चैव ह । 003a
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥ 003c
सारणेन च वीरेण निशठेनोन्मुखेन च । 004a
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥ 004c
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः । 005a
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥ 005c
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः । 006a
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ 006c
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः । 007a
विदुरेण महातेजास्तथैव च युयुत्सुना ॥ 007c
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय । 008a
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ 008c
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः । 009a
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ 009c
हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः । 010a
आविवश दिशः सर्वाः पुनरेवाभ्युपागमत् ॥ 010c
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा । 011a
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥ 011c
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् । 012a
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः ॥ 012c
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् । 013a
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप ॥ 013c
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा । 014a
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ 014c
वासुदेव महाबाहो सुप्रजा देवकी त्वया । 015a
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥ 015c
यदुप्रवीर योऽयं ते स्वस्त्रीयस्याऽऽत्मजः प्रभो । 016a
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ 016c
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन । 017a
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ॥ 017c
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ । 018a
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ 018c
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा । 019a
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि ॥ 019c
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च । 020a
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥ 020c
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च । 021a
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥ 021c
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन । 022a
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः ॥ 022c
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा । 023a
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥ 023c
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति । 024a
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलं ॥ 024c
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा । 025a
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ 025c
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन । 026a
कुलस्यास्य हितार्थं च कुरु कल्याणमुत्तमम् ॥ 026c
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना । 027a
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥ 027c
अब्रुवंश्च महाराज सर्वाः सास्त्राविलेक्षणाः । 028a
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ 028c
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः । 029a
भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ ॥ 029c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
14-66-05 क्षत्रियाः स्त्रियः ॥14-66-10 प्रविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् इति झ. पाठः ॥ 14-66-13 विक्रोशन्त्यः विक्रोशन्तीः ॥ 14-66-23 मातुलस्य अभिमन्युमातुलस्य कृष्णस्य । तत्तुल्यपराक्रम इत्यर्थः ॥