अध्यायः 065
युधिष्ठिरेण विधिवन्नानाबलिहरणादिना सपरिचरमहेश्वरपतितोषणेन विविधकनकभाण्डाहरणेन पुनर्नगरं प्रत्यागमनम् ॥ 1 ॥
ब्राह्मणा ऊचुः । 001
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः । 001a
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे ॥ 001c
वैशम्पायन उवाच । 002
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः । 002a
गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥ 002c
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च । 003a
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययौ तदा ॥ 003c
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप । 004a
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ॥ 004c
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि । 005a
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः । 005c
किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥ 005e
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह । 006a
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये ॥ 006c
कृसरेण च मांसेन निवापैस्तिलसंयुतैः । 007a
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् ॥ 007c
ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः । 008a
नक्तञ्चराणां भूतानां व्यादिदेश बलिं तदा ॥ 008c
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् । 009a
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः ॥ 009c
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः । 010a
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥ 010c
पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च । 011a
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥ 011c
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः । 012a
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥ 012c
तेषां पुण्याहघोषेण तेजसा समवस्थितः । 013a
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥ 013c
ततः पात्रीः सकरका बहुरूपा मनोरमाः । 014a
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥ 014c
बहूनि च विचित्राणि भाजनानि सहस्रशः । 015a
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥ 015c
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा । 016a
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप ॥ 016c
वाहनं पाण्डुपुत्रस्य तत्राऽऽसीत्तु विशाम्पते । 017a
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥ 017c
वारणाश्च महाराज सहस्रशतसम्मिताः । 018a
शकटानि रथाश्चैव तावदेव करेणवः । 018c
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ॥ 018e
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः । 019a
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥ 019c
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः । 020a
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥ 020c
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् । 021a
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः ॥ 021c
सा पुराऽभिमुखा राजन्नुवाह महती चमूः । 022a
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥ ॥ 022c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
14-65-14 पात्रीः महान्ति ओदनोद्धरणपात्राणि । करका अल्पघटाः । भृङ्गाराणि गडुकान् । वर्धमानकान् शरावाणि ॥ 14-65-16 करपटः करसम्पुटाकारं द्विदलभाजनं उष्ट्रादिवाह्यम् सन्दूख इति प्रसिद्धम् ॥