अध्यायः 064
युधिष्ठिरेण हिमवद्गिरिमेत्य सेनानिवेशनम् ॥ 1 ॥ तत्र ब्राह्मणचोदनया तैः सहोपवासादिव्रताचरणपूर्वकं निशायापनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः । 001a
रथघोषेण महता पूरयन्तो वसुन्धराम् ॥ 001c
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः । 002a
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः ॥ 002c
पाण्डुरेणाऽऽतपत्रेण ध्रियमाणेन मूर्धनि । 003a
बभौ युधिष्टिरस्तत्र पौर्णमास्यामिवोडुराट् ॥ 003c
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः । 004a
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥ 004c
तथैव सैनिका राजन्राजानमनुयान्ति ये । 005a
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥ 005c
सरांसि सरितश्चैव वनान्युपवनानि च । 006a
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत ॥ 006c
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् । 007a
चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः । 007c
शिवे देशे समे चैव तदा भरतसत्तम ॥ 007e
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् । 008a
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥ 008c
आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः । 009a
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन् ॥ 009c
कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि । 010a
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः ॥ 010c
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि । 011a
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥ 011c
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे । 012a
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा ॥ 012c
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् । 013a
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥ 013c
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः । 014a
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥ 014c
अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमक्रियासु । 015a
तपोभिरद्येह वसाम राजन्नुपोष्यतां चापि भवद्भिरद्य ॥ 015c
श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः । 016a
ऊषुः प्रतीताः कुशसंस्तरेषु यथाऽध्वरे प्रज्वलिता हुताशाः ॥ 016c
ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः । 017a
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥ ॥ 017c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
14-64-9 आग्निवेश्यं धौम्यम् ॥