अध्यायः 063
युधिष्ठिरेण व्यासाज्ञया भीमादिभिः सहालोच्य यज्ञार्थं धनाहरणाय सहभ्रात्रादिभिर्हिमवत्पार्श्वं प्रति प्रस्थानम् ॥ 1 ॥
जनमेजय उवाच । 001
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना । 001a
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह ॥ 001c
रत्नं च यन्मरुत्तेन निहितं वसुधातले । 002a
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥ 002c
वैशम्पायन उवाच । 003
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः । 003a
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ॥ 003c
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि । 004a
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना ॥ 004c
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता । 005a
तपोवृद्धेन महता सुहृदां भूतिमिच्छता ॥ 005c
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा । 006a
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता ॥ 006c
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः । 007a
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ॥ 007c
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः । 008a
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ॥ 008c
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः । 009a
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि । 009c
तदानयामहे सर्वे कथं वा भीम मन्यसे ॥ 009e
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह । 010a
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ 010c
रोचते मे महाबाहो यदिदं भाषितं त्वया । 011a
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥ 011c
तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो । 012a
कृतमेव महाराज भवेदिति मतिर्मम ॥ 012c
ते वयं प्रणिपातेन गिरीशस्य महात्मनः । 013a
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ 013c
'तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम् । 014a
अनादिनिधनं शम्भुं नमस्याम महेश्वरम् ॥' 014c
लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्च तान् । 015a
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ 015c
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः । 016a
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ 016c
'स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः । 017a
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः ॥ 017c
वनस्थस्य पुरा जिष्णोरस्त्रं पाशुपतं महत् । 018a
रौद्रं ब्रह्मशिरश्चादात्प्रसन्नः किं पुनर्धनम् ॥ 018c
वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति । 019a
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन ॥ 019c
अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये । 020a
जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि । 020c
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः ॥ 020e
तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः । 021a
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः ॥ 021c
कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत् । 022a
द्रोणकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः । 022c
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 022e
तस्यैव च प्रसादेन निहतास्तव शत्रवः । 023a
अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति ।' 023c
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत । 024a
प्रीतो धर्मात्मजो राजा बभूवातीव भारत । 024c
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः ॥ 024e
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् । 025a
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ 025c
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च । 026a
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ 026c
मोदकैः पायसेनाथ मांसापूपैस्तथैव च । 027a
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥ 027c
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ । 028a
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ 028c
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च । 029a
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ 029c
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् । 030a
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम् ॥ 030c
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् । 031a
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः । 031c
'प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः' ॥ ॥ 031e
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥
14-63-25 ध्रुवे नक्षत्रे रोहिण्यामुत्तरात्रये च । अहानि वारे ध्रुवे रविवारे । उत्तरार्केऽमृतसिद्धयोगे इत्यर्थः ॥ 14-63-31 मूले वंशस्याद्ये । कुन्तीधृतराष्ट्रसमीपे इत्यर्थः ॥