अध्यायः 062
वसुदेवादिभिरभिमन्यवे श्राद्धदानम् ॥ 1 ॥ व्यासेन हास्तिनपुरमेत्य उत्तरादिपरिसान्त्वपूर्वकं युधिष्ठिरं प्रत्यश्वमेधसञ्चोदनेन पुनरन्तर्धानम् ॥ 2 ॥
वैशम्पायन उवाच । 001
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा । 001a
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ 001c
तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः । 002a
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ 002c
षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम् । 003a
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥ 003c
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् । 004a
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥ 004c
सुवर्णं चैव गाश्चैव शयनाच्छादनानि च । 005a
दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन् ॥ 005c
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः । 006a
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा । 006c
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ॥ 006e
तथैव पाण्डवा वीरा नगरे नागसह्वये । 007a
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ॥ 007c
सुबहूनि च राजेन्द्र दिवसानि विराटजा । 008a
नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत् ॥ 008c
धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च । 009a
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा ॥ 009c
समागम्याब्रवीद्धीमान्पृथां पृथुललोचनाम् । 010a
उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् ॥ 010c
जनिष्यते महातेजाः पुत्रस्तव यशस्विनि । 011a
प्रभावाद्वासुदेवस्य मम व्याहरणादपि । 011c
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ 011e
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः । 012a
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ 012c
पौत्रस्तव महाभागो जनिष्यति महामनाः । 013a
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ॥ 013c
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन । 014a
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥ 014c
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन । 015a
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥ 015c
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् । 016a
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ॥ 016c
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः । 017a
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥ 017c
पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते । 018a
अवर्धत यथाकामं शुक्लपक्षे यथा शशी ॥ 018c
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् । 019a
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ 019c
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः । 020a
वित्तोपनयने तात चकार गमने मतिम् ॥ ॥ 020c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
14-62-09 कुक्षिस्थ एव तस्याथ गर्भो वै सम्प्रलीयतेति झ. पाठः ॥