अध्यायः 061
कृष्णेन सभायां वसुदेवं प्रति अभिमन्युनिधनाकथने सुभद्रया तं प्रति तत्कथनचोदनापूर्वकं शोकान्मोहावेशेन भुवि निपतनम् ॥ 1 ॥ ततः कृष्णेन वसुदेवपरिसान्त्वनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
कथयन्नेव तु तदा वासुदेवः प्रतापवान् । 001a
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ 001c
अभिमन्योर्वधं वीरः सोऽत्यक्रामन्महामतिः । 002a
अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥ 002c
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् । 003a
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ॥ 003c
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे । 004a
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥ 004c
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा । 005a
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥ 005c
ततः स दौहित्रवधाद्दुःखशोकसमाहतः । 006a
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥ 006c
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः । 007a
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥ 007c
तद्भागिनेयनिधनं तत्त्वेनाऽऽचक्ष्व मे प्रभो । 008a
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे । 008c
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह । 009a
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥ 009c
किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति । 010a
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥ 010c
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः । 011a
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ 011c
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः । 012a
बालभावेन विजयमात्मनोऽकथयत्प्रभुः । 012c
कच्चिन्न निकृतो बालो द्रोणकर्णकृपादिभिः । 013a
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥ 013c
स हि द्रोणं च भीष्मं च कर्णं च बलिनां वरम् । 014a
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ 014c
एवंविधं बहु तदा विलपन्तं सुदुःखितम् । 015a
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत् ॥ 015c
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि । 016a
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥ 016c
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः । 017a
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥ 017c
एको ह्येकेन सततं युध्यमानो यदि प्रभो । 018a
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥ 018c
समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा । 019a
पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे ॥ 019c
ततः शत्रुवधं कृत्वा सुमहान्तं रणे पितः । 020a
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥ 020c
नूनं च स गतः स्वर्गं जहि शोकं महामते । 021a
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः ॥ 021c
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः । 022a
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥ 022c
स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः । 023a
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ॥ 023c
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम । 024a
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह ॥ 024c
द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता । 025a
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ 025c
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः । 026a
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥ 026c
उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः । 027a
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह ॥ 027c
ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा । 028a
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ 028c
अभिमन्योऽनुशयिनो मातुलास्ते महारथाः । 029a
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ 029c
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम । 030a
कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे । 030c
एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम् । 031a
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ 031c
सुभद्रे वासुदेवेन तथा सात्यकिना रणे । 032a
पित्रा च लालितो बालः स हतः कालधर्मणा ॥ 032c
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि । 033a
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥ 033c
कुले महति जाताऽसि क्षत्रियाणां महात्मनाम् । 034a
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे ॥ 034c
उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे । 035a
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥ 035c
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह । 036a
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥ 036c
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च । 037a
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥ 037c
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह । 038a
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम् ॥ 038c
वैराटि नेह सन्तापस्त्वया कार्यो ह्यनिन्दिते । 039a
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम् ॥ 039c
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते । 040a
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ 040c
एवं स निधनं प्राप्तो दौहित्रस्तव मानद । 041a
सन्तापं त्यज दुर्धर्ष मा च शोके मनः कृथाः ॥ ॥ 041c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥
14-61-11 कच्चिद्दुःखेन गोविन्द तत्राजौ विमुखीकृतः इति थ.पाठः ॥ 14-61-19 समाहृते च सङ्ग्रामादिति झ.पाठः । पर्यवार्यत सतुष्टैरिति थ.पाठः ॥