अध्यायः 060
कृष्णेन वसुदेवादीन्प्रति कुरुपाण्डवयुद्धप्रकारकथनम् ॥ 1 ॥
वसुदेव उवाच । 001
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् । 001a
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः ॥ 001c
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः । 002a
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ॥ 002c
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् । 003a
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ 003c
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः । 004a
नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥ 004c
वैशम्पायन उवाच । 005
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके । 005a
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ॥ 005c
वासुदेव उवाच । 006
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् । 006a
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ॥ 006c
प्राधान्यतस्तु गदतः समासेनैव मे शृणु । 007a
कर्माणि पृथिवीशानां यथावदमरद्युते ॥ 007c
भीष्मः सेनापतिरभूदेकादशचमूपतिः । 008a
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः ॥ 008c
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः । 009a
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना ॥ 009c
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् । 010a
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ 010c
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् । 011a
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ 011c
अकरोत्स ततः कालं शरतल्पगतो मुनिः । 012a
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ॥ 012c
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः । 013a
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ 013c
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः । 014a
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः ॥ 014c
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् । 015a
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा ॥ 015c
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः । 016a
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ 016c
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे । 017a
नानादिगागता वीराः प्रायशो निधनं गताः ॥ 017c
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् । 018a
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ 018c
ततः सेनापतिरभूत्कर्णो दौर्योधने बले । 019a
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ 019c
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः । 020a
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ 020c
ततः पार्थं समासाद्य पतङ्ग इव पावकम् । 021a
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः ॥ 021c
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः । 022a
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ 022c
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् । 023a
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ 023c
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः । 024a
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम् ॥ 024c
हते शल्ये तु शकुनिं सहदेवो महामनाः । 025a
आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥ 025c
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः । 026a
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ 026c
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् । 027a
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ 027c
हतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम् । 028a
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ 028c
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः । 029a
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥ 029c
ततः स निहतो राजा धार्तराष्ट्रो महारणे । 030a
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ 030c
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि । 031a
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ 031c
हतपुत्रा हतबला हतमित्रा मया सह । 032a
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः ॥ 032c
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत । 033a
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥ 033c
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने । 034a
विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ ॥ 034c
एवं तदभवद्युद्धमहान्यष्टादश प्रभो । 035a
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥ 035c
वैशम्पायन उवाच । 036
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् । 036a
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा ॥ ॥ 036c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
14-60-11 ततः शिखण्डी गाङ्गेयं युध्यमानं महाहवे । इति झ.पाठः ॥