अध्यायः 059

उदङ्काय वरदानात्परं द्वारकामागच्छता कृष्णेन मध्ये रैवतकप्रवेशः ॥ 1 ॥ रैवतकोत्सववर्णनम् ॥ 2 ॥ ततः कृष्णेन स्वभवनमेत्य मातापितृभ्यामभिवादनम् ॥ 3 ॥

जनमेजय उवाच । 001
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजसत्तम । 001a
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥ 001c
वैशम्पायन उवाच । 002
उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह । 002a
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥ 002c
सरांसि सरितश्चैव वनानि च गिरींस्तथा । 003a
अतिक्रम्याऽऽससादाथ रम्यां द्वारवतीं पुरीम् ॥ 003c
वर्तमाने महाराज महे रैवतकस्य च । 004a
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥ 004c
अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः । 005a
बभौ रत्नमयैः कोशैः संवृतः पुरुषर्षभ ॥ 005c
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च । 006a
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च ॥ 006c
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः । 007a
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥ 007c
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः । 008a
पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् । 008c
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥ 008e
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत । 009a
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः ॥ 009c
प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसङ्कुलः । 010a
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः ॥ 010c
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् । 011a
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥ 011c
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह । 012a
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् । 012c
बभौ परमकल्याणो महस्तस्य महागिरेः ॥ 012e
पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः । 013a
विहारो वृष्णिवीराणां महे रैवतकस्य ह ॥ 013c
स नानावेश्मसङ्कीर्णो देवलोक इवाऽऽबभौ । 014a
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः ॥ 014c
'स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः । 015a
साधकः सर्वधर्माणामसुराणां विनाशकः ॥ 015c
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् । 016a
त्वया सत्क्रियते देव न जानीमोऽत्र मायया ॥ 016c
केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् । 017a
ब्रह्मादीनां च गोविन्द सान्निध्यं शरणं नमः ॥ 017c
इति स्तुते मानुषैश्च पूजिते देवकीसुते ।' 018a
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥ 018c
ततः सम्पूज्यमानः स विवेश भवनं शुभम् । 019a
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम् ॥ 019c
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः । 020a
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥ 020c
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा । 021a
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥ 021c
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा । 022a
अभ्यवादयत प्रीतः पितरं मातरं तदा ॥ 022c
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः । 023a
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः ॥ 023c
स विश्रान्तो महातेजाः कृतपादावनेजनः । 024a
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम् ॥ ॥ 024c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

14-59-4 महे उत्सवे ॥ 14-59-7 दीपभूतो बभूवहेति क.थ.पाठः ॥ 14-59-10 प्रमत्ताः क्रीडाद्यासक्त्यानवहिताः । मत्ताः मद्यादिना । सम्मता हृष्टाः ॥ 14-59-23 सात्यकिश्च महाभुज इति क.पाठः ॥