अध्यायः 058

उदङ्केनाभिज्ञाननिवेदनेन मदयन्तीतः कुण्डलग्रहणपूर्वकं प्रतिनिवर्तनम् ॥ 1 ॥ मध्येमार्गं क्षुधाविष्टेन तेन बिल्वतरुमारुह्य शाखायां कुण्डलासञ्जनपूर्वकं फलपातनाय शाखाचालनम् ॥ 2 ॥ तत्र पतत्फलघट्टनेन कुण्डलयोरधःपतने केनचिदुरगवरेण तदपहृत्य नागलोकगमनम् ॥ 3 ॥ तत इन्द्रसाहाय्याद्भूविदारणेन नागलोकं गतेनोदङ्केन तत्राश्ववचसा तदपानदेशधमने तन्निर्गतधूमपटलनिरुद्धैः सर्पैरुदङ्काय कुण्डलप्रत्यर्पणम् ॥ 4 ॥ तत उदङ्केन गुरुपत्न्यै कुण्डलप्रदानम् ॥ 5 ॥

वैशम्पायन उवाच । 001
स मित्रसहमासाद्य अभिज्ञानमयाचत । 001a
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ 001c
सौदास उवाच । 002
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः । 002a
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले ॥ 002c
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् । 003a
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले ॥ 003c
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् । 004a
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ 004c
सौदास उवाच । 005
प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह । 005a
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ 005c
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् । 006a
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ॥ 006c
न चान्यामपि पश्यामि गतिं गतिमतांवर । 007a
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥ 007c
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः । 008a
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम् ॥ 008c
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले । 009a
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥ 009c
उदङ्क उवाच । 010
राजंस्तथेह कर्ताऽस्मि पुनरेष्यामि ते वशम् । 010a
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ॥ 010c
सौदास उवाच । 011
ब्रूहि विप्र यथाकामं प्रतिवक्ताऽस्मि ते वचः । 011a
छेत्ताऽस्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥ 011c
उदङ्क उवाच । 012
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः । 012a
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ 012c
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव । 013a
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ ॥ 013c
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः । 014a
भवत्सकाशमागन्तुं क्षमं मम न वेति वै ॥ 014c
सौदास उवाच । 015
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम । 015a
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ॥ 015c
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह । 016a
आगच्छतो हि ते विप्र भवेन्मृर्त्युन संशयः ॥ 016c
वैशम्पायन उवाच । 017
इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम् । 017a
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान् ॥ 017c
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः । 018a
जवेन महता प्रायाद्गौतमस्याऽऽश्रमं प्रति ॥ 018c
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम् । 019a
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत् ॥ 019c
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् । 020a
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः ॥ 020c
शाखास्वासज्य तस्यैव कृष्णाजिनमरिन्दम । 021a
पातयामास बिल्वानि तदा स द्विजपुङ्गवः ॥ 021c
अथ पातयमानस्य बिल्वापहृतचक्षुषः । 022a
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो ॥ 022c
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै । 023a
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः ॥ 023c
सकुण्डलं तदजिनं पपात सहसा तरोः । 024a
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ॥ 024c
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले । 025a
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः ॥ 025c
विदश्याऽऽस्येन वल्मीकं विवेशाथ स कुण्डले । 026a
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ॥ 026c
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः । 027a
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ॥ 027c
[अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत ।] 028a
क्रोधामर्षाभिसन्तप्तस्तदा ब्राह्मणसत्तमः ॥ 028c
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा । 029a
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला । 029c
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् । 029e
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ 029g
रथेन हरियुक्तेन तं देशमुपजग्मिवान् । 030a
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम् ॥ 030c
वैशम्पायन उवाच । 031
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः । 031a
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै ॥ 031c
इतो हि नागलोको वै योजनानि सहस्रशः । 032a
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ 032c
उदङ्क उवाच । 033
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया । 033a
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ 033c
वैशम्पायन उवाच । 034
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा । 034a
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ 034c
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा । 035a
नागलोकस्य पन्थानमकरोज्जनमेजय ॥ 035c
स तेन मार्गेण तदा नागलोकं विवेश ह । 036a
ददर्श नागलोकं च योजनानि सहस्रशः ॥ 036c
प्राकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः । 037a
उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ 037c
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः । 038a
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ 038c
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः । 039a
पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ 039c
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा । 040a
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः ॥ 040c
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः । 041a
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा ॥ 041c
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे । 042a
ऐरावतसुतेनेह तवाऽऽनीते हि कुण्डले ॥ 042c
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन ॥ 043a
त्वयैतद्धि समाचीर्णं गौतमस्याऽऽश्रमे तदा ॥ 043c
उदङ्क उवाच । 044
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति । 044a
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम् ॥ 044c
अश्व उवाच । 045
गुरोर्गुरुं मां जानीहि ज्वलन्तं जातवेदसम् । 045a
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः ॥ 045c
विधिवत्सततं विप्र शुचिना भृगुनन्दन । 046a
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम् ॥ 046c
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना । 047a
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥ 047c
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत । 048a
घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥ 048c
तेन धूमेन महता वर्धमानेन भारत । 049a
नागलोके महाराज न प्राज्ञायत किञ्चन ॥ 049c
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् । 050a
वासुकिप्रमुखानां च नागानां जनमेजय ॥ 050c
न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत । 051a
नीहारसंवृतानीव वनानि गिरयस्तथा ॥ 051c
ते धूमरक्तनयना वह्नितेजोभितापिताः । 052a
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः ॥ 052c
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः । 053a
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि ॥ 053c
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः । 054a
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ 054c
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च । 055a
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ 055c
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान् । 056a
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ 056c
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् । 057a
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ ॥ 057c
वासुकिप्रमुखानां च नागानां जनमेजय । 058a
सर्वं शशंस गुरवे यथावद्द्विजसत्तमः ॥ 058c
एवं महात्मना तेन त्रींल्लोकाञ्जनमेजय । 059a
परिक्रम्याऽऽहृते दिव्ये ततस्ते मणिकुण्डले ॥ 059c
एवम्प्रभावः स मुनिरुदङ्को भरतर्षभ । 060a
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ ॥ 060c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

14-58-1 मित्रसहः सौदासः । अभिज्ञानं श्लोकरूपं ज्ञापकम् । 14-58-2 एषा रक्षोयोनिरूपा । अन्या इतो मुक्तिरूपा ॥ 14-58-10 ततोदङ्काय वै प्रादात्तस्मै ते मणिकुण्डले इति क.ट.थ.पाठः ॥ 14-58-10 निवृत्तोऽस्मि परन्तपेति झ.पाठः ॥ 14-58-12 प्राप्तवान्सङ्गतिं मित्रं धर्मनैपुण्यदर्शनादिति क.ट.थ.पाठः ॥ 14-58-16 तत्रैव तु प्रवक्ष्यामि श्रेयो भृगुकुलोद्वहेति क.ट.थ.पाठः ॥ 14-58-26 आस्येन कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः ॥