अध्यायः 057

शापाद्राक्षसत्वं गतेन सौदासेनोदङ्कभक्षणोद्यमे उदङ्केन पुनः प्रत्यागमनप्रतिज्ञापूर्वकं तं प्रति कुण्डलयाचनम् ॥ 1 ॥ उदङ्केन सौदासवचसा तत्पत्नीं प्रति कुण्डलयाचने तया तं प्रति मणिकुण्डलमहिमादिकथनपूर्वकं राजाभिज्ञानानयनचोदना ॥ 2 ॥

वैशम्पायन उवाच । 001
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् । 001a
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥ 001c
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् । 002a
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥ 002c
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् । 003a
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥ 003c
उदङ्क उवाच । 004
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् । 004a
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ 004c
राजोवाच । 005
षष्ठे काले ममाहारो विहितो द्विजसत्तम । 005a
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै ॥ 005c
उदङ्क उवाच । 006
एवमस्तु महाराज समयः क्रियतां तु मे । 006a
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥ 006c
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम । 007a
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर ॥ 007c
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा । 008a
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह । 008c
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥ 008e
उपाहृत्य गुरोरर्थं त्वदायत्तमरिन्दम । 009a
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥ 009c
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन । 010a
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ 010c
सौदास उवाच । 011
यदि मत्तस्तवाऽऽयत्तो गुर्वर्थः कृत एव सः । 011a
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे ॥ 011c
उदङ्क उवाच । 012
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ । 012a
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥ 012c
सौदास उवाच । 013
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले । 013a
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ 013c
उदङ्क उवाच । 014
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् । 014a
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव ॥ 014c
वैशम्पायन उवाच । 015
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः । 015a
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥ 015c
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता । 016a
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ 016c
उदङ्क उवाच । 017
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर । 017a
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति ॥ 017c
सौदास उवाच । 018
तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे । 018a
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ 018c
वैशम्पायन उवाच । 019
उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ । 019a
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम् ॥ 019c
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना । 020a
प्रत्युवाच महाबुद्धिमुदङ्कं जनमेजय ॥ 020c
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ । 021a
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि ॥ 021c
इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च । 022a
तैस्तैरुपायैरपहर्तुकामाश्छिद्रेषु नित्यं परितर्कयन्ति ॥ 022c
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः । 023a
यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयुः ॥ 023c
छिद्रेष्वेतेष्विमे नित्यं ह्रियेते द्विजसत्तम । 024a
देवराक्षसनागानामप्रमत्तेन धार्यते ॥ 024c
एते दिवाऽपि भासेते रात्रौ च द्विजसत्तम । 025a
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः ॥ 025c
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः । 026a
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ 026c
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा । 027a
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके ॥ 027c
एवंविधे ममैते वै कुण्डले परमार्चिते । 028a
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय ॥ ॥ 028c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

14-57-24 छिद्रेष्वेतेष्विमे इति पूर्वान्वयि । नागानां नागैः ह्रियेत इति सम्बन्धः ॥