अध्यायः 055
कृष्णेनोदङ्काय विश्वरूपप्रदर्शनपूर्वकं पिपासाकाले जललाभरूपवरदानम् ॥ 1 ॥ कृष्णेनोदङ्कायामृतदानं चोदितेनेन्द्रेण कदाचिद्वनमध्ये पिपासुमुदङ्कं प्रति चण्डालवेषेण जलस्वीकारप्रार्थने उदङ्केन चण्डालत्वबुद्ध्या तदधिक्षेपः ॥ 2 ॥ पश्चात्तस्य तिरोधानेन परितप्यन्तमुदङ्कं प्रति तत्र सन्निहितेन कृष्णेनेन्द्रकृतवञ्चनानिवेदनपूर्वकं मरुप्रदेशे जललाभरूपवरदानम् ॥ 3 ॥
उदङ्क उवाच । 001
अभिजानामि जगतः कर्तारं त्वां जनार्दन । 001a
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥ 001c
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत । 002a
विनिवृत्तश्च मे कोप इति विद्धि परन्तप ॥ 002c
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन । 003a
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय ॥ 003c
वैशम्पायन उवाच । 004
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । 004a
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः ॥ 004c
स ददर्श महात्मानं विश्वरूपं महाभुजम् । 005a
सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम् । 005c
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम् ॥ 005e
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् । 006a
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम् ॥ 006c
उदङ्क उवाच । 007
'नमोनमस्ते सर्वात्मन्नारायण परात्मक । 007a
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव ॥ 007c
हिरण्यगर्भरूपाय संसारोत्तारणाय च । 008a
पुरुषाय पुराणाय शान्तश्यामाय ते नमः ॥ 008c
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम् । 009a
संसारार्णवसारं त्वां प्रणमामि गतिर्भव ॥ 009c
सर्ववेदैकवेद्याय सर्ववेदमयाय च । 010a
वासुदेवाय नित्याय नमो भक्तप्रियाय ते ॥ 010c
दयया दुःखमोहान्मां समुद्धर्तुमिहार्हसि । 011a
कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन ॥' 011c
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव । 012a
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥ 012c
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम् । 013a
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ 013c
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् । 014a
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ 014c
वैशम्पायन उवाच । 015
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय । 015a
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम् । 015c
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते । 016a
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ 016c
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय । 017a
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥ 017c
उदङ्कक उवाच । 018
अवश्यं करणीयं च यद्येतन्मन्यसे विभो । 018a
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ 018c
ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः । 019a
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ 019c
ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया । 020a
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ 020c
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् । 021a
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥ 021c
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् । 022a
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥ 022c
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव । 023a
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह । 023c
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् ॥ 023e
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत । 024a
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् । 024c
पुनःपुनश्च मातङ्गः पिबस्वेति तमब्रवीत् । 025a
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ 025c
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना । 026a
श्वभिः सह महाराज तत्रैवान्तरधीयत ॥ 026c
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः । 027a
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ 027c
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः । 028a
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत् ॥ 028c
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम । 029a
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ 029c
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः । 030a
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ 030c
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै । 031a
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः ॥ 031c
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरन्दरः । 032a
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ 032c
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत् । 033a
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥ 033c
अमृतं देयमित्येव मयोक्तः स शचीपतिः । 034a
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥ 034c
यदि देयमवश्यं वै मातङ्गोऽहं महामते । 035a
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने ॥ 035c
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै । 036a
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो । 036c
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन ॥ 036e
स तथा समयं कृत्वा तेन रूपेण वासवः । 037a
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् । 037c
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ 037e
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् । 038a
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम् ॥ 038c
येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति । 039a
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ 039c
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन । 040a
उदङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥ 040c
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह । 041a
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ ॥ 041c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥
14-55-3 ते रूपमैश्वरमिति झ.पाठः ॥ 14-55-19 एष्टव्ये जलेऽपेक्षिते सति ॥ 14-55-21 मातङ्गं चण्डालविशेषम् ॥ 14-55-22 अधः पाददेशे स्रोतसो दृतेर्वारीति सम्बन्धः । ततः शङ्कितमानस इति क.ट.थ.पाठः ॥ 14-55-24 चिक्षेप निन्दितवान् ॥ 14-55-27 प्रलब्धं वञ्चितम् ॥