अध्यायः 054
कृष्णेनोदङ्कं प्रति स्वमाहात्म्यप्रकाशनपूर्वकं कुरूणां स्ववचनातिक्रमणादिरूपस्वापराधेनैव निधनोक्तिः ॥ 1 ॥
उदङ्क उवाच । 001
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् । 001a
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥ 001c
वासुदेव उवाच । 002
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान् । 002a
'स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसञ्ज्ञितः ॥ 002c
कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः । 003a
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ ॥ 003c
प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम् ।' 004a
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज ॥ 004c
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् । 005a
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः ॥ 005c
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान् । 006a
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ 006c
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च । 007a
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ 007c
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने । 008a
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम् ॥ 008c
असच्च सच्चैव च यद्विश्वं सदसतः परम् । 009a
ततः परतरं नास्ति देवदेवात्सनातनात् ॥ 009c
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह । 010a
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे ॥ 010c
होतारमपि हव्यं च विद्धि मां भृगुनन्दन । 011a
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम् ॥ 011c
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे । 012a
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ॥ 012c
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम । 013a
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम ॥ 013c
मानसं दयितं विप्र सर्वभूतदयात्मकम् । 014a
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ॥ 014c
बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम । 015a
लोकसरङ्क्षणार्थाय धर्मसंस्थापनाय च ॥ 015c
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव । 016a
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ॥ 016c
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च । 017a
अधर्मे वर्तमानानां सर्वेषामहमच्युतः ॥ 017c
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे । 018a
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ 018c
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन । 019a
तदाऽहं देववत्सर्वमाचरामि न संशयः ॥ 019c
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन । 020a
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव ॥ 020c
नागयोनौ यदा चैव तदा वर्तामि नागवत् । 021a
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम् ॥ 021c
मानुष्ये वर्तमाने तु कृपणं याचिता मया । 022a
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः ॥ 022c
भयं च महदुद्दिश्य त्रासिताः कुरवो मया । 023a
क्रुद्धेन भूत्वा तु पुनर्यथावदनुदर्शिताः ॥ 023c
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा । 024a
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥ 024c
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम । 025a
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ ॥ 025c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥
14-54-8 दैवतानि च कर्माणि विद्धि सर्वान्गुणान्ममेति ट.थ.पाठः ॥ 14-54-10 ओङ्कारप्रमुखानिति झ.पाठः ॥ 14-54-11 अध्वर्युः कल्पन इति ट.थ.पाठः ॥ 14-54-12 गतमोक्षे महाध्वरे इति ट.थ.पाठः ॥ 14-54-14 सर्वभूतगुणात्मकमिति क.ट.थ. पाठः ॥ 14-54-19 पुनस्त्वहं देवयोनाविति ट.थ.पाठः ॥