अध्यायः 053
कुरुपुराद्द्वारकां गच्छता कृष्णेन मध्येमार्गं दृष्टेनोदङ्केन सह संवादः ॥ 1 ॥ तथा कौरवादिविनाशे स्वोपेक्षाया हेतुत्वधिया स्वं प्रति शापदानोद्यतोदङ्कपरिसान्त्वनाय तं प्रति तत्वकथनोपक्रमः ॥ 2 ॥
वैशम्पायन उवाच । 001
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः । 001a
परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः ॥ 001c
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः । 002a
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः ॥ 002c
कृच्छ्रेणैव तु तां पार्थो गोविन्दे विनिवेशिताम् । 003a
सञ्जहार ततो दृष्टिं कृष्णश्चाप्यपराजितः ॥ 003c
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः । 004a
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ 004c
वायुर्वेगेन महता रथस्य पुरतो ववौ । 005a
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥ 005c
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च । 006a
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ 006c
स प्रयातो महाबाहुः समेषु मरुधन्वसु । 007a
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम् ॥ 007c
'महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम् ।' 008a
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः । 008c
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ 008e
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् । 009a
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ 009c
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् । 010a
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ 010c
अपि सन्धाय तान्वीरानुपावृत्तोऽसि केशव । 011a
सम्बन्धिनः स्वदयितान्सततं वृष्णिपुङ्गव ॥ 011c
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः । 012a
लोकेषु विहरिष्यन्ति त्वया सह परन्तप ॥ 012c
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् । 013a
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव ॥ 013c
या मे सम्भावना तात त्वयि नित्यमवर्तत । 014a
अपि सा सफला तात कृता ते भरतान्प्रति ॥ 014c
श्रीभगवानुवाच । 015
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति । 015a
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा । 015c
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः ॥ 015e
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा । 016a
महर्षे विदितं भूयः सर्वमेतत्तवानघ ॥ 016c
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च । 017a
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ 017c
पञ्चैव पाण्डवाः शिष्टा हतमित्रा हतात्मजाः । 018a
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ 018c
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः । 019a
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः ॥ 019c
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः । 020a
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ 020c
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः । 021a
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥ 021c
त्वया शक्तेन हि सता मिथ्याचारेण माधव । 022a
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः ॥ 022c
वासुदेव उवाच । 023
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन । 023a
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम् ॥ 023c
श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै । 024a
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान् ॥ 024c
न च ते तपसो नाशमिच्छामि तपतां वर । 025a
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥ 025c
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम । 026a
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि तेऽव्ययम् ॥ ॥ 026c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥
14-53-15 सौशाम्ये सौरस्ये ॥ 14-53-22 परीताः परितः प्राप्ताः ॥ 14-53-23 अनुनयं शिक्षाम् ॥ 14-53-24 मे मत्तः ॥