अध्यायः 052
अनुगीतोपदेशानन्तरं कृष्णार्जुनाभ्यां हास्तिनपुरं प्रति प्रस्थानम् ॥ 1 ॥ तत्र मध्येमार्गमर्जुनेन कृष्णं प्रति स्तुतिपूर्वकं व्यासनारदादिभ्यः स्वस्य कृष्णयाथात्म्यावगतिनिवेदनम् ॥ 2 ॥ ततः कृष्णेन सहार्जुनेन हास्तिनपुरमेत्य धृतराष्ट्रादिभ्यः पादाभिवादनम् ॥ 3 ॥ ततो युधिष्ठिराद्यनुमत्या सुभद्रामानीय सहसात्यकिना द्वारकां प्रति प्रस्थानम् ॥ 4 ॥
वैशम्पायन उवाच । 001
ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम् । 001a
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥ 001c
तथैव चानुयात्राणि चोदयामास पाण्डवः । 002a
सन्नह्यध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥ 002c
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते । 003a
आचख्युः सज्जमित्येवं पार्थायामिततेजसे ॥ 003c
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ । 004a
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशाम्पते ॥ 004c
रथस्थं तु महातेजा वासुदेवं धनञ्जयः । 005a
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥ 005c
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह । 006a
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥ 006c
नाथवन्तश्च भवता पाण्डवा मधुसूदन । 007a
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् । 007c
'भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च ॥' 007e
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम । 008a
तथा त्वामभिजानामि तथा चाहं भवान्मतः ॥ 008c
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन । 009a
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥ 009c
त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम् । 010a
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम् ॥ 010c
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् । 011a
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते ॥ 011c
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः । 012a
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥ 012c
रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम् । 013a
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥ 013c
सुदीर्घेणापि कालेन न ते शक्या गुणा मया । 014a
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥ 014c
विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा । 015a
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥ 015c
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः । 016a
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ ॥ 016c
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन । 017a
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया ॥ 017c
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः । 018a
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥ 018c
भवता तत्कृतं कर्म येनावाप्तो जयो मया । 019a
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥ 019c
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः । 020a
सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ 020c
'तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा ।' 021a
अहं च प्रीयमाणेन त्वया देवकिनन्दन । 021c
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ 021e
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् । 022a
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥ 022c
आदृतं हि ममैतत्ते द्वारकागमनं प्रभो । 023a
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन । 023c
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् ॥ 023e
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् । 024a
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥ 024c
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् । 025a
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥ 025c
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् । 026a
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥ 026c
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् । 027a
गान्धारीं च महाप्रज्ञां पृथां कृष्णां च भामिनीम् ॥ 027c
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा । 028a
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः ॥ 028c
ततः समेत्य राजानं धृतराष्ट्रमरिन्दमौ । 029a
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥ 029c
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि । 030a
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥ 030c
क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् । 031a
'परिष्वज्य महात्मानं वेश्यापुत्रं महारथम् ।' 031c
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम् ॥ 031e
ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान् । 032a
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ 032c
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् । 033a
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ 033c
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः । 034a
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ॥ 034c
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम् । 035a
धर्मराजस्य भवनं जग्मतुः परमार्चितौ । 035c
यत्राऽऽस्ते स सहामात्यो धर्मराजो महाबलः ॥ 035e
तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम् । 036a
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ ॥ 036c
समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ । 037a
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ ॥ 037c
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ । 038a
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ 038c
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ । 039a
ब्रूतं कर्ताऽस्मि सर्वं वां नचिरान्मा विचार्यताम् ॥ 039c
इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत् । 040a
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ 040c
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् । 041a
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥ 041c
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे । 042a
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥ 042c
युधिष्ठिर उवाच । 043
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन । 043a
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो ॥ 043c
रोचते मे महाबाहो गमनं तव केशव । 044a
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥ 044c
समेत्य मातुलं गत्वा बलदेवं च मानद । 045a
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः ॥ 045c
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् । 046a
फाल्गुनं सहदेवं च नकुलं चैव मानद ॥ 046c
आनर्तानवलोक्य त्वं पितरं च महाभुजः । 047a
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥ 047c
स गच्छ रत्नान्यादाय विविधानि वसूनि च । 048a
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ 048c
इयं च वसुधा कृत्स्ना प्रसादात्तव केशव । 049a
अस्मानुपागता वीर निहताश्चापि शत्रवः ॥ 049c
स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् । 050a
संसारगहने चेद्धपापाग्निप्रशमाम्बुद ॥' 050c
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे । 051a
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ 051c
तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाऽद्य वै । 052a
यदस्ति चान्यद्द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः ॥ 052c
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् । 053a
पितृष्वसारं त्ववदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥ 053c
तया स सम्यक् प्रतिनन्दितस्ततस्तथैव सर्वैर्विदुरादिभिस्तथा । 054a
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम् ॥ 054c
रथे सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः । 055a
पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥ 055c
तमन्वयाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि । 056a
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥ 056c
निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान् । 057a
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा ॥ 057c
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः । 058a
यथा निहत्यारिगणं शतकतुर्दिवं तथाऽऽनर्तपुरीं प्रतापवान् ॥ ॥ 058c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥
14-52-01 रथ इति रथमिति चार्धद्वयेऽपि शेषः ॥ 14-52-16 अनुग्रहः एतत्सम्यगाचरेत्याज्ञारूपः ॥