अध्यायः 051

कृष्णेनार्जुनं प्रति मुक्त्युपायप्रतिपादकगुरुशिष्यसंवादानुवादसमापनपूर्वकं स्वस्य निजनगरजिगमिषानिवेदनम् ॥ 1 ॥ अर्जुनेन तं प्रति युधिष्ठिराभ्यनुज्ञानसम्पादनपूर्वकगमनानुज्ञानम् ॥ 2 ॥

ब्रह्मोवाच । 001
भूतानामथ पञ्चानामथेषामीश्वरं मनः । 001a
नियमे च विसर्गे च भूतानां मन एव च ॥ 001c
अधिष्ठातृमनो नित्यं भूतानां महतां तथा । 002a
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते ॥ 002c
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः । 003a
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा ॥ 003c
महदश्वसमायुक्तं बुद्धिसंयमनं रथम् । 004a
समारुह्य स भूतात्मा समन्तात्परिधावति ॥ 004c
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च । 005a
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥ 005c
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् । 006a
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ 006c
अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम् ॥ 007a
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥ 007c
नदीपर्वतजालैश्च सर्वतः परिभूषितम् । 008a
विविधाभिस्तथा चाद्भिः सततं समलङ्कृतम् ॥ 008c
अजितं सर्वभूतानां सर्वप्राणभृतां गतिः । 009a
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित् ॥ 009c
लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च । 010a
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः । 010c
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ॥ 010e
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः । 011a
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ 011c
एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः । 012a
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु । 012c
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ 012e
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः । 013a
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्परां गतिम् ॥ 013c
प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः । 014a
तथैव देवानृषयस्तपसा प्रतिपेदिरे ॥ 014c
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा । 015a
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ 015c
औषधान्यगदादीनि नानाविद्याश्च सर्वशः । 016a
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम् ॥ 016c
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् । 017a
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 017c
सुरापो ब्रह्महा स्तेनो भ्रूणहा गुरुतल्पगः । 018a
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः ॥ 018c
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः । 019a
यानि चान्यानि भूतानि चराणि स्थावराणि च ॥ 019c
तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा । 020a
तथैव तपसा देवा महाभागा दिवं गताः ॥ 020c
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । 021a
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥ 021c
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः । 022a
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥ 022c
ध्यानयोगमुपागम्य प्रसन्नमतयः सदा । 023a
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः ॥ 023c
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः । 024a
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम् ॥ 024c
अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः । 025a
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम् ॥ 025c
निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः । 026a
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ 026c
चित्तं चित्तादुपागम्य मुनिरासीत संयतः । 027a
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम् ॥ 027c
अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् । 028a
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत ॥ 028c
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । 029a
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ 029c
कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः । 030a
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥ 030c
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः । 031a
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम् ॥ 031c
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः । 032a
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ 032c
य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् ॥ 033a
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् ॥ 033c
अपूर्वमकृतं नित्यं य एनमविचारिणम् । 034a
य एवं विन्देदात्मानमग्राह्यममृताशनम् । 034c
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः ॥ 034e
आयोज्य सर्वसंस्कारान्संयम्याऽऽत्मानमात्मनि । 035a
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ 035c
प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात् । 036a
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ 036c
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः । 037a
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ 037c
एषा गतिर्विरक्तानामेष धर्मः सनातनः । 038a
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥ 038c
समेन सर्वभूतेषु निस्पृहेण निराशिषा । 039a
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ 039c
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः । 040a
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥ 040c
गुरुरुवाच । 041
इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा । 041a
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन् ॥ 041c
त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः । 042a
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ॥ 042c
वासुदेव उवाच । 043
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् । 043a
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥ 043c
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह । 044a
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ 044c
अर्जुन उवाच । 045
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन । 045a
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ 045c
वासुदेव उवाच । 046
अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे । 046a
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनञ्जय ॥ 046c
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह । 047a
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ 047c
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्नरिकर्शन । 048a
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम् ॥ 048c
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते । 049a
मया तव महाबाहो तस्मादत्र मनः कुरु ॥ 049c
मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः । 050a
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन ॥ 050c
वैशम्पायन उवाच । 051
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः । 051a
'यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ॥ 051c
नमस्ते सर्वलोकात्मन्नारायण परात्पर । 052a
मनोमलात्तपोशक्यं कर्म चाविद्यया हतम् । 052c
दानमप्यर्थदोषेण नाम तस्मात्कलौ स्मरेत् ॥ 052e
यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते ।' 053a
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥ 053c
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् । 054a
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि ॥ ॥ 054c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

14-51-13 महाभूतानि गच्छतीति क.ट.थ.पाठः ॥ 14-51-32 विममो यः स पुरुष इति क.पाठः ॥ 14-51-35 अपोह्य सर्वान्सङ्कल्पान्संयतात्मानमात्मनीति थ.पाठः ॥