अध्यायः 050
ब्रह्मणा महर्षिन्प्रति धर्मप्रदर्शनपूर्वकं तदनुष्ठानसहकृतज्ञानस्यैव दृष्टान्तप्रदर्शनेन परमपुरुषार्थसाधनत्वोक्तिः ॥ 1 ॥ तथा क्षेत्रक्षेत्रज्ञसम्बन्धकथनम् ॥ 2 ॥ तथा पृथिव्यादिभूतगुणादिप्रतिपादनम् ॥ 3 ॥
ब्रह्मोवाच । 001
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः । 001a
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत ॥ 001c
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् । 002a
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् ॥ 002c
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् । 003a
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः । 003c
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः ॥ 003e
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः । 004a
लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ 004c
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । 005a
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥ 005c
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः । 006a
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥ 006c
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा । 007a
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ 007c
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते । 008a
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः ॥ 008c
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा । 009a
भुज्यमानं न जानीते नित्यं सत्वमचेतनम् । 009c
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ 009e
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः । 010a
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥ 010c
समः सञ्ज्ञानुगश्चैव स सर्वत्र व्यवस्थितः । 011a
न सज्जते सदा सत्वमापः पुष्करपर्णवत् ॥ 011c
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते । 012a
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ॥ 012c
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः । 013a
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः ॥ 013c
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा । 014a
यथा प्रदीपमादाय कश्चित्तमसि गच्छति । 014c
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः ॥ 014e
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते । 015a
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति ॥ 015c
व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते । 016a
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ 016c
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति । 017a
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ 017c
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः । 018a
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥ 018c
यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित् । 019a
क्लेशेन याति महता विनश्यत्यन्तराऽपि च ॥ 019c
तथा कर्मसु विज्ञेयं फलं भवति वा न वा । 020a
पुरुषस्याऽऽत्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥ 020c
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते । 021a
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥ 021c
तमेव च यथाऽध्वानं रथेनेहाशुगामिना । 022a
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ 022c
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम् । 023a
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥ 023c
यावद्रथपथस्तावद्रथेन स तु गच्छति । 024a
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति ॥ 024c
एवं गच्छति मेधावी तत्त्वयोगविधानवित् । 025a
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम् ॥ 025c
यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते । 026a
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम् ॥ 026c
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया । 027a
अश्रान्तः सलिलं गाहेच्छीघ्रं सन्तरते ह्रदम् ॥ 027c
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः । 028a
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः ॥ 028c
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा । 029a
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते ॥ 029c
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् । 030a
तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ 030c
एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक् । 031a
यथा कर्म कृतं लोके तथा तदुपपद्यते ॥ 031c
यन्नैव गन्धि नो रस्यं न रूपस्पर्शशब्दवत् । 032a
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ 032c
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् । 033a
महत्प्रधानभूतस्य गुणोऽहङ्कार एव च ॥ 033c
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः । 034a
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ॥ 034c
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम् । 035a
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥ 035c
बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः । 036a
बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥ 036c
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते । 037a
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम् ॥ 037c
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते । 038a
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ 038c
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला । 039a
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी ॥ 039c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । 040a
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ 040c
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः । 041a
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ 041c
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा । 042a
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ 042c
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत । 043a
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः ॥ 043c
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः । 044a
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा ॥ 044c
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः । 045a
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते ॥ 045c
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् । 046a
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा ॥ 046c
ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम् । 047a
एवं द्वादशविस्तारं तेजसो रूपमुच्यते ॥ 047c
विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः । 048a
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते ॥ 048c
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । 049a
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ 049c
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः । 050a
एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥ 050c
विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदर्शिभिः ॥ 051ac
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः । 052a
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ 052c
षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा । 053a
अतः परं तु विज्ञेयो निषादो धैवतस्तथा । 053c
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान् ॥ 053e
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः । 054a
आकाशमुत्तमं भूतमहङ्कारस्ततः परः ॥ 054c
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः । 055a
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः ॥ 055c
परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम् । 056a
सर्वभूतात्मभूतात्मा यं प्राप्याऽऽनन्त्यमश्नुते ॥ ॥ 056c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥