अध्यायः 049
महर्षिभिर्ब्रह्मणम्प्रति धर्मविषये नानाविधवादिविप्रतिपत्तिप्रदर्शनपूर्वकं तत्प्रयुक्तस्वीयसंशयनिवर्तनप्रार्थना ॥ 1 ॥
ऋषय ऊचुः । 001
को वा स्विदिह धर्माणामनुष्ठेयतमो मतः । 001a
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥ 001c
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे । 002a
केचित्संशयितं सर्वं निःसंशयमथापरे ॥ 002c
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे । 003a
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे ॥ 003c
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः । 004a
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ 004c
देशकालावुभौ केचिन्नैतदस्तीति चापरे । 005a
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ 005c
अस्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः । 006a
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः ॥ 006c
आहारं केचिदिच्छन्ति केचिच्चानशने रताः । 007a
कर्म केचित्प्रशंसन्ति प्रशान्तिं चापरे जनाः ॥ 007c
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् । 008a
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे । 008c
उपास्य साधनं त्वेके नैतदस्तीति चापरे ॥ 008e
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः । 009a
पुण्येन यशसा चान्ये नैतदस्तीति चापरे ॥ 009c
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः । 010a
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः ॥ 010c
यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे । 011a
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ॥ 011c
ज्ञानं सन्न्यासमित्येके स्वभावं भूतचिन्तकाः । 012a
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ 012c
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते । 013a
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम ॥ 013c
इदं श्रेय इदं श्रेय इत्येवं व्युत्थितो जनः । 014a
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥ 014c
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम् । 015a
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम ॥ 015c
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति । 016a
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना ॥ 016c
एवमुक्तः स तैर्विप्रैर्भगवाल्ँलोकभावनः । 017a
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ ॥ 017c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
14-49-1 न कर्मणेति कुर्वन्नेवेह कर्माणीत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः ॥ 14-49-2 ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्माऽस्तीत्येके वदन्तीति सम्बन्धः । नैतदिति लोकायताः । सर्वं संशयितमिति स्याद्वादिनः सप्तभङ्गीनयज्ञाः । निःसंशयमिति प्रातिस्विकं सर्वं तैर्थिकाः ॥ 14-49-3 अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः । नित्यं प्रवाहनित्यमिति मीमांसकाः । नास्तीति शून्यवादिनः । अस्ति परन्तु क्षणिकमिति सौगताः ॥ 14-49-6 अस्नानं नैष्ठिकब्रह्मचर्यम् । स्नानं गार्हस्थ्यम् ॥ 14-49-8 साधनं ध्यानादिकमुपास्य कृत्वाऽपि नैतदस्तीति पश्चात्सर्वमपवदन्ति ॥ 14-49-9 पुण्येन पुण्यार्थमेव यतेतेत्यन्ये । एतत्पुण्यं नास्त्येवेत्यन्ये लोकायताः ॥ 14-49-10 संशयिते कृतमस्ति नवेति सन्दिग्धे पथि । दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं कर्तव्यम् । निष्काममेवेत्यपरे ॥ 14-49-11 सत्यमेके प्रशंसन्ति असत्यमिति चापरे इति थ.पाठः ॥ 14-49-12 ज्ञानं सन्न्यासं सन्न्यासैकप्राप्यम् । भूतचिन्तकाः वस्तुतत्त्वविचारकाः । स्वभावं साधनपौष्कल्यम् । साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते आश्रमान्तरेऽपि न सन्न्यासमात्रेणेत्याहुः ॥ 14-49-15 अविहिता अशिक्षिता । आख्यातं त्वयेति शेषः ॥