अध्यायः 048

ब्रह्मणा महर्षीन्प्रति योगिनां चातुर्विध्यादिकथनपूर्वकं मुमुक्षुवेद्यनानार्थकथनम् ॥ 1 ॥

ब्रह्मोवाच । 001
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम् । 001a
केचित्परममव्यक्तं केचित्परमनामयम् । 001c
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ 001e
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् । 002a
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते ॥ 002c
निमेषमात्रमपि चेत्संयम्याऽऽत्मानमात्मनि । 003a
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ 003c
प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः । 004a
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः ॥ 004c
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति । 005a
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते ॥ 005c
सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः । 006a
अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम् । 006c
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः ॥ 006e
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । 007a
ज्ञानं त्यागोऽथ सन्न्यासः सात्विकं वृत्तमिष्यते ॥ 007c
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः । 008a
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा ॥ 008c
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः । 009a
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते ॥ 009c
पृथग्भूतस्तथा नित्यमित्येतदविचारितम् । 010a
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ 010c
तथैवैकत्वनानात्वमिष्यते विदुषां नयः । 011a
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते ॥ 011c
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः । 012a
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च ॥ 012c
गुरुरुवाच । 013
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम् । 013a
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः ॥ ॥ 013c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

14-48-2 भोक्तुः कालेन वै भवेदिति ट.पाठः ॥ 14-48-13 उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं सम्यगवधृतवन्त इत्यर्थः ॥