अध्यायः 047

ब्रह्मणा महर्षीन्प्रति सन्न्यासज्ञानतपसां परमपुरुषार्थसाधनत्वोक्तिः ॥ 1 ॥

ब्रह्मोवाच । 001
सन्न्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः । 001a
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥ 001c
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् । 002a
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम् ॥ 002c
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् । 003a
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः ॥ 003c
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् । 004a
सन्न्यासनिरता नित्यं ये च ब्रह्मविदो जनाः ॥ 004c
तपः प्रदीप इत्याहुराचारो धर्मसाधकः । 005a
ज्ञानं वै परमं विद्यात्सन्न्यासं तप उत्तमम् ॥ 005c
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् । 006a
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते ॥ 006c
यो विद्वान्सहवासं च विवासं चैव पश्यति । 007a
तथैवैकत्वनानात्वे स दुःखात्प्रतिमुच्यते ॥ 007c
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते । 008a
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ 008c
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् । 009a
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ 009c
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च । 010a
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति ॥ 010c
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् । 011a
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ 011c
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । 012a
महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥ 012c
महाभूतविशाखश्च विशेषप्रतिशाखवान् । 013a
सदापत्रः सदापुष्पः शुभाशुभफलोदयः ॥ 013c
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । 014a
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः ॥ 014c
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् । 015a
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ 015c
द्वाविमौ पक्षिणौ नित्यौ सङ्क्षेपौ चाप्यचेतनौ । 016a
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते ॥ 016c
अचेतनः सत्वसङ्ख्याविमुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा । 017a
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धिर्गुणातिगो मुच्यते सर्वपापैः ॥ ॥ 017c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

14-47-15 हित्वा चामरतां प्राप्य जह्याद्यो मृत्युजन्मनीति क.ठ.थ. पाठः ॥ 14-47-16 पक्षिणौ जीवेश्वरौ ॥ 14-47-17 अचेतनस्तत्वसङ्घातयुक्तस्तत्वात्परं चेतयतेऽन्तरात्मा । स क्षेत्रज्ञस्तत्वसङ्घातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशादिति क.थ.पाठः ॥