अध्यायः 046

ब्रह्मणा महर्षीन्प्रति ब्रह्मचारिवनस्थधर्मनिरूपणपूर्वकं तदनुष्ठानस्य श्रेयःसाधनत्वोक्तिः ॥ 1 ॥

ब्रह्मोवाच । 001
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि । 001a
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ 001c
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः । 002a
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ 002c
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् । 003a
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् ॥ 003c
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः । 004a
धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ 004c
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा । 005a
सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह ॥ 005c
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा । 006a
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ 006c
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् । 007a
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥ 007c
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः । 008a
न संसरति जातीषु परमं स्थानमाश्रितः ॥ 008c
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् । 009a
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत् ॥ 009c
चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत् । 010a
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ 010c
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् । 011a
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ 011c
स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत् । 012a
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥ 012c
समूलफलशाकाद्यैरर्चेदतिथिमागतम् । 013a
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ 013c
देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः । 014a
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ 014c
दान्तो मैत्रः क्षमायुक्तः केशाञ्श्मश्रु च धारयन् । 015a
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ 015c
न्यस्तदेहः सदा दक्षो वननित्यः समाहितः । 016a
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥ 016c
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः । 017a
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ 017c
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् । 018a
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ 018c
अयाचितमसङ्क्लृप्तमुपपन्नं यदृच्छया । 019a
कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥ 019c
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् । 020a
लाभेन च न हृष्येत नालाभे विमना भवेत् । 020c
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः ॥ 020e
यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः । 021a
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ॥ 021c
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः । 022a
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च ॥ 022c
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा । 023a
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम् ॥ 023c
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् । 024a
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन ॥ 024c
न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत् । 025a
शून्यागारमण्यं वा वृक्षमूलं नदीं तथा ॥ 025c
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् । 026a
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ॥ 026c
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् । 027a
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ॥ 027c
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् । 028a
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित् ॥ 028c
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा । 029a
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च ॥ 029c
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् । 030a
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ॥ 030c
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् । 031a
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥ 031c
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् । 032a
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत् ॥ 032c
ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन । 033a
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम् ॥ 033c
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन । 034a
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ 034c
नाददीत परस्वानि न गृह्णीयान्न याचयेत् । 035a
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥ 035c
मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च । 036a
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान् ॥ 036c
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् । 037a
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः ॥ 037c
श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत् । 038a
मुधावृत्तिरसक्तश्च सर्वभूतैरसन्धितः ॥ 038c
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च । 039a
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥ 039c
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् । 040a
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ 040c
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् । 041a
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ 041c
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् । 042a
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥ 042c
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् । 043a
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ॥ 043c
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः । 044a
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित् ॥ 044c
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च । 045a
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान् ॥ 045c
निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः । 046a
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः ॥ 046c
अपादपाणिपृष्ठं तदशिरस्कमनूदरम् । 047a
अभिन्नगुणकर्माणं केवलं विमलं स्थिरम् ॥ 047c
अगन्धमरसस्पर्शमरूपाशब्दमेव च । 048a
अनुगम्यमनासक्तममांसमपि चैव यत् ॥ 048c
निश्चिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा । 049a
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ 049c
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः । 050a
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च ॥ 050c
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता । 051a
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत् ॥ 051c
गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत् । 052a
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ॥ 052c
यथैनमवमन्येरन्परे सततमेव हि । 053a
तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन् ॥ 053c
य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते । 054a
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ॥ 054c
मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा । 055a
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात् ॥ 055c
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः । 056a
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित् ॥ 056c
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः । 057a
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ॥ 057c
क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम् ॥ ॥ 058ac

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥

14-46-08 जयेल्लोकान्वानप्रस्थो जितेन्द्रिय इति झ. पाठः ॥ 14-46-10 सायं प्रातरपः स्पृशेदिति क. पाठः ॥ 14-46-35 न किञ्चिद्द्वेषद्भुक्त्वा तस्मै नो गर्हयेत्पुनरिति क. पाठः । स्पृहयेदितरस्य वै इति ट. थ. पाठः॥