अध्यायः 045

ब्रह्मणा महर्षीन्प्रति शरीरस्य कालचक्रवत्सर्वनाशकत्वोक्तिपूर्वकं गृहस्थधर्मानुष्ठानस्य श्रेयःसाधनत्वोक्तिः ॥ 1 ॥

ब्रह्मोवाच । 001
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् । 001a
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥ 001c
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् । 002a
देशकालविचारीदं श्रमव्यायामनिःस्वनम् ॥ 002c
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् । 003a
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम् ॥ 003c
छायातपविलेखं च निमेषोन्मेषविह्वलम् । 004a
शोकमोहजराकीर्णं वर्तमानमचेतनम् ॥ 004c
मासार्धमासगुणितं विषमं लोकसञ्चरम् । 005a
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥ 005c
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् । 006a
विरतिग्रहणाभीकं शोकसंहारवर्तनम् ॥ 006c
क्रियाकारणसंयुक्तं रागविस्तारमायतम् । 007a
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम् ॥ 007c
भयमोहपरीवारं भूतसम्मोहकारकम् । 008a
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम् ॥ 008c
महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम् । 009a
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥ 009c
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् । 010a
विसृजेत्सङ्क्षिपेच्चापि बोधयेत्स्वापयेज्जगम् ॥ 010c
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः । 011a
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ 011c
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः । 012a
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ 012c
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । 013a
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ 013c
यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः । 014a
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ 014c
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः । 015a
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ 015c
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः । 016a
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह ॥ 016c
देवतातिथिशिष्टाशी निरतो वेदकर्मसु । 017a
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥ 017c
न पाणिपादचपलो न नेत्रचपलो मुनिः । 018a
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ 018c
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः । 019a
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ 019c
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः । 020a
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ 020c
'त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः । 021a
एकमाचमनार्थाय एकं वै पादधावनम् । 021c
एकं शौचविधानार्थमित्येतत्त्रितयं तथा ॥' 021e
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने । 022a
दानं प्रतिग्रहं वाऽपि षड्गुणां वृत्तिमाचरेत् ॥ 022c
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः । 023a
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ 023c
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु । 024a
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥ 024c
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् । 025a
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ 025c
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः । 026a
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥ ॥ 026c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

14-45-1 इन्द्रियग्रामवर्धनमिति क.ट.थ.पाठः ॥ 14-45-8 अनन्तप्रतिसारं चेति ट.पाठः ॥ 14-45-10 मोहयेत्सामरं जगदिति क.ट.थ.पाठः ॥