अध्यायः 044

ब्रह्मणा महर्षीन्प्रति स्वस्वजातिषु श्रेष्ठवस्तु प्रतिपादनपूर्वकं ज्ञानस्याविनाशित्वकथनेन तस्यैव श्रेयःसाधनत्वोक्तिः ॥ 1 ॥

ब्रह्मोवाच । 001
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च । 001a
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥ 001c
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः । 002a
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥ 002c
भूमिरादिस्तु गन्धानां रसानामाप एव च । 003a
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते ॥ 003c
शब्दस्याऽऽदिस्तथाऽऽकाशमेष भूतकृतो गुणः । 004a
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् ॥ 004c
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते । 005a
सावित्री सर्वविद्यानां देवतानां प्रजापतिः ॥ 005c
ओङ्कारः सर्ववेदानां वचसां प्राण एव च । 006a
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥ 006c
गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते । 007a
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥ 007c
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् । 008a
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥ 008c
कृतमादिर्युगानां च सर्वेषां नात्र संशयः । 009a
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥ 009c
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते । 010a
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥ 010c
स्थावराणां तु भूतानां सर्वेषामविशेषतः । 011a
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः ॥ 011c
अहं प्रजापतीनां च सर्वेषां नात्र संशयः । 012a
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति संस्मृतः ॥ 012c
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः । 013a
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा ॥ 013c
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता । 014a
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः ॥ 014c
देवदानवभूतानां पिशाचोरगरक्षसाम् । 015a
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥ 015c
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् । 016a
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते ॥ 016c
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः । 017a
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥ 017c
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी । 018a
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम् ॥ 018c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । 019a
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम् ॥ 019c
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् । 020a
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम् ॥ 020c
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये । 021a
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥ 021c
तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः । 022a
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ॥ ॥ 022c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः ॥ 44 ॥

14-44-2 श्रविष्ठादीनि सर्वाणीति क.ट.थ.पाठः ॥ 14-44-3 रूपाणां ज्योतिरादित्य इति झ.पाठः ॥ 14-44-8 हुतं अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तम् ॥ 14-44-11 ब्रह्मवृक्षः सदा पुण्यः इति क.थ.पाठः ॥ 14-44-14 सरोदपानानां सरसां कूपादीनां च । सन्धिरार्षः । तथाचाश्वो वाहनानां सर्वेषां सागरोग्रज इति क.पाठः ॥ 14-44-15 ईश्वरः रुद्रः ॥