अध्यायः 043
ब्रह्मणा महर्षीन्प्रति मनुष्येषु क्षत्रियाणां रजोगुणकार्यबलप्रधानतया तेषां सत्वप्रधानब्राह्मणरक्षणस्य कर्तव्यत्वकथनप्रसङ्गेन तत्तज्जातिश्रेष्ठवस्तुकथनम् ॥ 1 ॥ तथाऽहिंसादिधर्मादिप्रतिपादनम् ॥ 2 ॥
ब्रह्मोवाच । 001
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः । 001a
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ 001c
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम् । 002a
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ 002c
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा । 003a
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ 003c
एते द्रुमाणां राजानो गणानां मरुतस्तथा । 004a
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ॥ 004c
श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः । 005a
भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा ॥ 005c
एते पर्वतराजानो गणानां मरुतस्तथा । 006a
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ॥ 006c
यमः पितॄणामधिपः सरितामथ सागरः । 007a
अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते ॥ 007c
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते । 008a
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ॥ 008c
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः । 009a
त्वष्टाऽधिराजो रूपाणां पशूनामीश्वरः शिवः । 009c
दक्षिणानां तथा यज्ञो वेदानामृच एव च । 010a
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ॥ 010c
कुबेरः सर्वरत्नानां देवतानां पुरन्दरः । 011a
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः ॥ 011c
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् । 012a
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते ॥ 012c
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् । 013a
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ 013c
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् । 014a
देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ 014c
भगदेवानुयातानां सर्वासां वामलोचना । 015a
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ॥ 015c
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम् । 016a
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ 016c
धर्मकामाश्च राजानो ब्राह्मणा धर्मसेतवः । 017a
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ 017c
राज्ञां हि विषये येषामवसीदन्ति साधवः । 018a
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥ 018c
राज्ञां हि विषये येषां साधवः परिरक्षिताः । 019a
तेऽस्मिल्ँलोके प्रमोदन्ते प्रेत्य चानन्दमेव च ॥ 019c
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः । 020a
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ॥ 020c
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा । 021a
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ॥ 021c
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः । 022a
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ॥ 022c
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा । 023a
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ॥ 023c
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् । 024a
मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति ॥ 024c
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः । 025a
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ॥ 025c
प्रवृत्तिलक्षणो योगो ज्ञानं सन्न्यासलक्षणम् । 026a
तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान् ॥ 026c
सन्न्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् । 027a
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ॥ 027c
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया । 028a
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ 028c
पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते । 029a
प्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ 029c
अपां धातू रसो नित्यं जिह्वया स तु गृह्यते । 030a
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ 030c
तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते । 031a
चक्षुःस्थश्च तथाऽऽदित्यो रूपज्ञाने विधीयते ॥ 031c
वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः । 032a
त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते ॥ 032c
आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते । 033a
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ 033c
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते । 034a
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ॥ 034c
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा । 035a
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः ॥ 035c
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः । 036a
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ 036c
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाऽप्ययम् । 037a
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥ 037c
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते । 038a
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ 038c
आदिमध्यावसानं तत्सृज्यमानमचेतनम् । 039a
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः ॥ 039c
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति । 040a
गुणानां गुणभूतानां यत्परं परतो महत् ॥ 040c
तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित् । 041a
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥ 041c
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च । 042a
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः ॥ ॥ 042c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
14-43-2 आखुश्च बिलवासिनामिति क.थ.पाठः ॥ 14-43-7 राजासत्त्वानां मित्र उच्यत इति क.ट.थ.॥ 14-43-8 उष्णानां देवानामिन्द्र उच्यत इति क.ट.थ.पाठः ॥ 14-43-15 भगदेवाः कामुकास्तैरनुयातानामनुसृतानां स्त्रीणां सर्वासां मध्ये माहेश्वरी वामलोचनेति सम्बन्धः ॥ भद्रादेवाभिजातानां सर्वेषां वारिजेक्षणेति क.ट.पाठः ॥ 14-43-16 रतीनां प्रीतिसुखानाम् । वसुमत्यः धनवत्यः । धनलाभगर्वितं यत्प्रीतिसुखं तदेव महदित्यर्थः ॥ 14-43-17 वर्णक्रमाश्च राजान इति क.ट.थ.पाठः ॥ 14-43-25 लक्षणं महतो ध्यानमिति क.पाठः ॥