अध्यायः 041

ब्रह्मणा महर्षीन्प्रति महदहङ्कारतत्वनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच । 001
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः । 001a
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥ 001c
महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान् । 002a
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः । 002c
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते । 003a
तं जानन्ब्राह्मणो विद्वान्प्रमोहं नाधिगच्छति ॥ 003c
सर्वतः पाणिपादं च सर्वतोक्षिशिरोमुखम् । 004a
सर्वतः श्रुतिमल्लोके सर्वं व्याप्यावतिष्ठति ॥ 004c
महाप्रभावः पुरुषः सर्वस्य हृदि निष्ठितः । 005a
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 005c
तत्र बुद्धिमतां लोके सद्भावनिरताश्च ये । 006a
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥ 006c
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः । 007a
प्रसन्नमनसो धीरा निर्ममा निरहङ्क्रियाः ॥ 007c
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत । 008a
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् ॥ 008c
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै । 009a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 009c
तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु । 010a
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च ॥ 010c
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते । 011a
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥ 011c
स धीरः सर्वलोकेषु न मोहमधिगच्छति । 012a
विष्णुरेवाऽऽदिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥ 012c
एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषं विश्वरूपम् । 013a
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ 013c
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते । 014a
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ॥ 014c
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः । 015a
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥ 015c
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् । 016a
अहमित्येव तत्सर्वमभिमानः स उच्यते ॥ 016c
अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् । 017a
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥ 017c
अहङ्कारेणाहरतो गुणानिमान्भूतादिरेवं सृजते स भूतकृत् । 018a
वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा ॥ ॥ 018c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥