अध्यायः 040

ब्रह्मणा महर्षीन्प्रति सत्वादिगुणत्रयनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच । 001
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः । 001a
अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा ॥ 001c
अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः । 002a
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः ॥ 002c
यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः । 003a
यावत्तमश्च सत्वं च रजस्तावदिहोच्यते ॥ 003c
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः । 004a
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥ 004c
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम् । 005a
वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः ॥ 005c
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् । 006a
अल्पं तत्र रजो ज्ञेयं सत्वमल्पतरं तथा ॥ 006c
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् । 007a
अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा ॥ 007c
उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत् । 008a
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा ॥ 008c
सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका । 009a
न हि सत्वात्परो भावः कश्चिदन्यो विधीयते ॥ 009c
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः । 010a
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ 010c
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम् । 011a
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥ 011c
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः । 012a
तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम ॥ 012c
दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत् । 013a
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥ 013c
आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः । 014a
परितापोऽध्वगानां च रजसो गुण उच्यते ॥ 014c
प्राकाश्यं सत्वमादित्यः सन्तापो रजसो गुणः । 015a
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ 015c
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः ॥ 016a
पर्यायेण च वर्न्तते तत्रतत्र तथातथा ॥ 016c
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः । 017a
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकः ॥ 017c
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते । 018a
मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा ॥ 018c
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते । 019a
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः ॥ 019c
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च । 020a
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ 020c
पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा । 021a
यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः ॥ 021c
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु । 022a
सत्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ 022c
तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः । 023a
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥ 023c
अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम् । 024a
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् । 024c
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥ 024e
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः । 025a
विमुक्तदेहः प्रविभागतत्त्ववित् स मुच्यते सर्वगुणैर्निरामयः ॥ ॥ 025c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

14-40-1 अविच्छिन्नानि अपृथग्भूतानि । इदं सात्विकमिदं राजसमिदं तामसं कार्यमिति व्यपदेशस्तु तत्तद्गुणप्राधान्यमात्रादित्यर्थः ॥ 14-40-4 संहत्य मिश्रीभूय यात्रां व्यवहारं कुर्वते । यतः सङ्घचारिणः संहतस्वभावाश्चरन्ति ॥