अध्यायः 039

ब्रह्मणा महर्षीन्प्रति सत्वगुणकार्यनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच । 001
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् । 001a
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥ 001c
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च । 002a
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥ 002c
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । 003a
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ 003c
मुधाज्ञानं मुधावृत्तं मुधासेवा मुधाश्रमः । 004a
एवं यो युक्तधर्मः स्यात्सोऽमुत्रात्यन्तमश्नुते ॥ 004c
निर्ममो निरहङ्कारो निराशीः सर्वतः समः । 005a
अकामहत इत्येव सतां धर्मः सनातनः ॥ 005c
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता । 006a
आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम् ॥ 006c
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता । 007a
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम् ॥ 007c
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः । 008a
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता ॥ 008c
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् । 009a
मुधाप्रतिग्रहश्चैव मुधाधर्मो मुधातपः ॥ 009c
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः । 010a
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥ 010c
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः । 011a
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः ॥ 011c
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा । 012a
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥ 012c
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः । 013a
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥ 013c
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च । 014a
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः । 014c
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति ॥ 014e
प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च । 015a
नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स युज्यते ॥ ॥ 015c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

14-39-7 हर्षः पुत्रजन्मादिजं सुखम् । तुष्टिरलम्बुद्धिः । शान्तिकर्मणि मुक्त्युपाये शुद्धिः आर्जवेन प्रवृत्तिः ॥ 14-39-8 उपेक्षा औदासीन्यम् ॥