अध्यायः 038

ब्रह्मणा महर्षीन्प्रति रजोगुणकार्यनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच । 001
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः । 001a
निबोधत महाभागा गुणवृत्तं च राजसम् ॥ 001c
सन्तापो रूपमायासः सुखदुःखे हिमातपौ । 002a
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा ॥ 002c
बलं शौर्यं मदो रोषो व्यायामकलहावपि । 003a
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥ 003c
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च । 004a
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम् ॥ 004c
उग्रं दारुणमाक्रोशः परवित्तानुरागिता । 005a
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम् ॥ 005c
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् । 006a
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम् ॥ 006c
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ॥ 007a
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः ॥ 007c
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् । 008a
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥ 008c
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये । 009a
प्रधानमाशीर्युक्तं च सततं मे भवत्विति ॥ 009c
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया । 010a
याजनाध्यापने चोभे यजनाध्ययने अपि ॥ 010c
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् । 011a
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ॥ 011c
अभिद्रोहस्तथा माया निकृतिर्मान एव च । 012a
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः ॥ 012c
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् । 013a
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये ॥ 013c
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन । 014a
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥ 014c
भूतभव्यभविष्याणां भावानां भुवि भावनाः । 015a
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥ 015c
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः । 016a
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः ॥ 016c
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः । 017a
प्रेत्यभाविकमीहन्ते ऐहलौकिकमेव च । 017c
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति ॥ 017e
रजोगुणा वो बहुधाऽनुकीर्तिता यथावदुक्तं गुणवृत्तमेव च । 018a
नरोऽपि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते ॥ ॥ 018c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

14-38-2 सङ्घातो रूपमायास इति क.ट.थ.पाठः ॥ 14-38-5 उग्रं निष्टुरं दारुणं हिंस्रत्वम् ॥ 14-38-6 परिभाषणं धिक्कृत्य भाषणम् ॥ 14-38-7 व्यूहः व्यवहाररचनाकौशलम् ॥ 14-38-8 शरणेषु रक्षितृषु ॥ 14-38-9 अप्रत्ययः अविश्वासः ॥ 14-38-12 परितापः स्वजनकैवल्यनिमित्तो दाहः । पाठान्तरे परिवादः सर्वनिन्दा ॥ 14-38-14 प्रसङ्गा येन केनचिदिति क.थ.पाठः ॥ 14-38-16 अर्वाक् स्वर्गादधः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा ॥ 14-38-17 प्रेत्यभाविकं जन्मान्तरीयं कुशलम् ॥