अध्यायः 037
ब्रह्मणा कश्यपादिमहर्षीन्प्रति तमोगुणकार्यनिरूपणम् ॥ 1 ॥
ब्रह्मोवाच । 001
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् । 001a
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥ 001c
एकादशपरिक्षेपं मनोव्याकरणात्मकम् । 002a
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥ 002c
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः । 003a
प्रनाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ॥ 003c
तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते । 004a
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः ॥ 004c
अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः । 005a
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः ॥ 005c
तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः । 006a
रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः ॥ 006c
नियम्यते तमो यत्र रजस्तत्र निवर्तते । 007a
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते ॥ 007c
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् । 008a
अधर्मलक्षणं चैव नियतं पापकर्मसु । 008c
तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम् ॥ 008e
प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम् । 009a
सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् ॥ 009c
प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता । 010a
सात्विकं रूपमेवं तु लाघवं साधुसम्मितम् ॥ 010c
एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः । 011a
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत ॥ 011c
सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः । 012a
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥ 012c
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता । 013a
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ 013c
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता । 014a
अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना ॥ 014c
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना । 015a
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः ॥ 015c
सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः । 016a
ये चान्ये विहिता भावा लोकेऽस्मिन्भावसञ्ज्ञिताः ॥ 016c
तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः । 017a
परिवादकथा नित्यं देवब्राह्मणवैरिता ॥ 017c
अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा । 018a
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ 018c
वृथारम्भा हि ये केचिद्वृथा दानानि यानि च । 019a
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ 019c
अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता । 020a
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥ 020c
एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः । 021a
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः ॥ 021c
तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम् । 022a
अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः । 022c
स्थावराणि च भूतानि पशवो वाहनानि च । 023a
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ॥ 023c
अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः । 024a
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ 024c
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः । 025a
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥ 025c
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् । 026a
यथा ते सुकृतां लोकाल्ँलभन्ते पुण्यकर्मिणः ॥ 026c
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु । 027a
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ 027c
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् । 028a
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥ 028c
अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु । 029a
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ 029c
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः । 030a
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥ 030c
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः । 031a
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ 031c
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः । 032a
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ 032c
तमोमोहो महामोहस्तामिस्रो ह्यन्धसञ्ज्ञितः । 033a
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते ॥ 033c
वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः । 034a
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥ 034c
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति । 035a
अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम् ॥ 035c
तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम् । 036a
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥ ॥ 036c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
14-37-24 अण्डजा जन्तव इति झ.पाठः ॥ 14-37-30 चूचुकाः स्खलद्गिरः । पुष्पचूचुका इति क.पाठः ॥ 14-37-32 कामेषु स्त्र्याद्यर्थेषु । अभिष्वङ्ग आसक्तिः ॥