अध्यायः 036

कृष्णेनार्जुनं प्रति परब्रह्मस्वरूपतत्प्राप्तिसाधनादिप्रतिपादकगुरुशिष्यसंवादानुवादः ॥ 1 ॥

अर्जुन उवाच । 001
ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि । 001a
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥ 001c
वासुदेव उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ 002c
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् । 003a
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परन्तप ॥ 003c
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः । 004a
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम ॥ 004c
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह । 005a
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ 005c
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः । 006a
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ 006c
शिष्य उवाच । 007
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् । 007a
कुतो जातानि भूतानि स्थावराणि चराणि च ॥ 007c
केन जीवन्ति भूतानि तेषामायुश्च किं परम् । 008a
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ॥ 008c
के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम् । 009a
एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत ॥ 009c
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः । 010a
त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति ॥ 010c
ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम । 011a
मोक्षधर्मार्थकुशलो भवाल्ँलोकेषु गीयते ॥ 011c
सर्वसंशयसञ्च्छेत्ता त्वदन्यो न च विद्यते । 012a
संसारभीरवश्चैव मोक्षकामास्तथा वयम् ॥ 012c
वासुदेव उवाच । 013
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते । 013a
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ॥ 013c
छायाभूताय दान्ताय यतते ब्रह्माचारिणे । 014a
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः । 014c
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिन्दम ॥ 014e
गुरुरुवाच । 015
ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम् । 015a
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम् ॥ 015c
ज्ञानं त्वेव परं विद्यः सन्न्यासं तप उत्तमम् । 016a
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात् । 016c
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ॥ 016e
यो विद्वान्सहसंवासं विवासं चैव पश्यति । 017a
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥ 017c
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते । 018a
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ 018c
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् । 019a
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ 019c
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । 020a
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥ 020c
महाभूतविशेषश्च विशेषप्रतिशाखवान् । 021a
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥ 021c
आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः । 022a
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना । 022c
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ॥ 022e
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् । 023a
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥ 023c
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते । 024a
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥ 024c
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् । 025a
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ 025c
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च । 026a
मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः ॥ 026c
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः । 027a
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ 027c
तं प्रणम्य महात्मानं सुखासीनं महर्षयः । 028a
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम् ॥ 028c
कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात् । 029a
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं ॥ 029c
कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ । 030a
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥ 030c
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः । 031a
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ 031c
ब्रह्मोवाच । 032
सत्याद्भूतानि जातानि स्थावराणि चराणि च । 032a
तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम् । 032c
स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा ॥ 032e
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥ 033ac
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । 034a
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत् ॥ 034c
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः । 035a
अतीतक्रोधसन्तापा नियता धर्मसेतवः ॥ 035c
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् । 036a
तानहं सम्प्रवक्ष्यामि शाश्वताल्ँलोकभावनान् ॥ 036c
चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक् । 037a
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ 037c
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः । 038a
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥ 038c
गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः । 039a
निबोधत महाभागा निखिलेन परं पदम् ॥ 039c
ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम् । 040a
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् । 040c
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥ 040e
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः । 041a
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ॥ 041c
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत । 042a
फलमूलानिलभुजां मुनीनां वसतां वने ॥ 042c
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते । 043a
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते ॥ 043c
श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते । 044a
'नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः ॥' 044c
इत्येवं देवयाना वः पन्थानः परिकीर्तिताः । 045a
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥ 045c
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः । 046a
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ 046c
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना । 047a
विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥ 047c
महानात्मा तथाऽव्यक्तमहङ्कारस्तथैव च । 048a
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥ 048c
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः । 049a
चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता ॥ 049c
तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ । 050a
स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥ 050c
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः । 051a
विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते ॥ ॥ 051c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्त्रिंशोऽध्यायः ॥

14-36-10 कश्च कोऽपि ॥ 14-36-29 कथं कर्म क्रियात्साद्यु इति झ.पाठः । क्रियात्कुर्वीत । के । नोऽस्माकम् ॥ 14-36-43 गार्हस्थ्यं तद्विधीयते इति झ.पाठः ॥