अध्यायः 035

कृष्णेनार्जुनं प्रति ब्राह्मणीब्राह्मणशब्दनिर्दिष्टयोः क्रमेण बुद्धिमनस्त्वकथनम् ॥ 1 ॥

ब्राह्मण्युवाच । 001
नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना । 001a
बहु चाल्पं च सङ्क्षिप्तं विस्तृतं च मतं मम ॥ 001c
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः । 002a
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते ॥ 002c
ब्राह्मण उवाच । 003
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः । 003a
तपःश्रुतेऽभिमथिनी ज्ञानाग्निर्जायते ततः ॥ 003c
ब्राह्मण्युवाच । 004
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति सञ्ज्ञितम् । 004a
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद ॥ 004c
ब्राह्मण उवाच । 005
अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे । 005a
उपायमेव वक्ष्यामि येन गृह्येत भावना ॥ 005c
सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे । 006a
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः । 006c
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । 007a
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते ॥ 007c
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् । 008a
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ 008c
सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । 009a
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ 009c
श्रीभगवानुवाच । 010
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये । 010a
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ 010c
अर्जुन उवाच । 011
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । 011a
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ 011c
श्रीभगवानुवाच । 012
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । 012a
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ ॥ 012c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥

14-35-6 सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यत इति झ.पाठः ॥